________________
-
कूपदृष्टान्तविशदीकरणं
-
___ यशो.: अस्थि णं भंते! जीवा णं अकक्कसवेयणिज्जा कम्मा कज्जंति? हंता अत्थि। कहण्णं भंते! जीवा णं अकक्कसवेयणिज्जा कम्मा कज्जंति? गो० पाणाइवायवेरमणेणं जाव परिग्गहवेरमणेणं, कोहविवेगेणं जाव मिच्छादसणसल्लविवेगेणं। एवं खलु गोयमा! जीवा णं अकक्कसवेयणिज्ज (ज्जा) कम्मं (म्मा) कज्जइ (कजंति)।
अस्थि णं भंते। णेरइआ णं अकक्कसवेयणिज्जा कम्मा कज्जंति? णो इणद्वे समढे। एवं जाव वेमाणिया णं णवरं मणुस्साणं जहा जीवा णं।
यन्द्र.: अधुना द्वितीयसूत्रम्।
तत्र जीवास्तावदकर्कशवेदनीयं कर्म कुर्वन्त्येव, परन्तु चतुर्विंशतिदण्डकानां मध्ये सर्वेऽपि दण्डका न तत्कुर्वन्ति, यस्मात् प्राणातिपातविरमणादिना तद्भवति, तच्च विरमणं विरतिरूपं न सर्वेषु दण्डकेषु, किन्तु केषुचिदेवेति सूत्रे जीवानाश्रित्य अकर्कशवेदनीयकर्म प्राणातिपातविरमणादिना प्रतिपादितं, परन्तु दण्डकानाश्रित्य केवलं मनुष्येष्वेव प्राणातिपातविरमणादिना अकर्कशवेदनीयकर्म प्रतिपादितं, तत्र विरतिसद्भावात्। शेषेषु दण्डकेषु तदभाव एव प्रतिपादितः, विरत्यभावादिति।
एतदेव सूत्रे ‘णवरं मणुस्साणं जहा जीवाणं' इत्यादिना निगदितम्। ___ यशो.: अस्थि णं भंते! जीवा णं सातावेदणिज्जा कम्मा कज्जंति? हंता अस्थि। कहण्णं भंते! जीवा णं सातावेदणिज्जा कम्मा कज्जंति? गो० पाणाणुकंपयाए, भूयाणुकम्पयाए, जीवाणुकम्पयाए सत्ताणुकंपयाए। बहूणं पाणाणं जाव सत्ताणं अदुक्खणयाए, असोयणयाए, अजूरणयाए, अतिप्पणयाए अपीडणयाए अपरियावणयाए एवं खलु गो० जीवा णं सातावेदणिज्जा कम्मा कज्जंति। एवं णेरइआण वि, एवं जाव वेमाणिआणं।
यन्द्र.: अधुना तृतीयसूत्रम्। 'हे भदन्त! जीवा: सातवेदनीयं कर्म कुर्वन्तीति एतद् किमस्ति?, इति प्रश्नः। 'हन्त! अस्ति' इति उत्तरम्। 'हे भदन्त! जीवाः कथं सातवेदनीयं कर्म कुर्वन्ति' इति पुनरपि प्रश्नः।
'गौतम! प्राणानुकम्पया, भूतानुकम्पया, जीवानुकम्पया, सत्त्वानुकम्पया, बहूनां प्राणानां भूतानां जीवानां सत्त्वानां अदुःखनतया अशोचनतया अजूरणतया अतिप्रणतया अपीडनतया अपरितापनतया जीवाः सातवेदनीयं कर्म कुर्वन्ति।
एवं नारकादारभ्य वैमानिकपर्यन्तेषु चतुर्विंशतिदण्डकेषु सातबन्धो विज्ञेयः।