________________
कूपदृष्टान्तविशदीकरणं
यशो : उपलक्षणमिदं सातवेदनीयबन्धस्य ।
=
थन्द्रः ननु एकादश्यां गाथायां अकर्कशवेदनीयमेवोक्तं न तु सातवेदनीयमित्यत आह - उपलक्षणं : स्वज्ञापकत्वे सति इतरस्यापि ज्ञापकं इदं = 'अकर्कशवेदनीयं' इति गाथोक्तं पदं । कस्योपलक्षणमित्याह सातवेदनीयबन्धस्य इत्यादि । तथा च भगवत्यामुभयमपि उक्तं, प्रकृतगाथायां तु गाथावशा वक्तुं शक्यमिति एकमेवोक्तं, परन्तु एकेन द्वितीयमपि ग्राह्यमेवेति भावः।
यशो.
: अत्रालापकाः
(भग. ७/६/२८५-२८६)
(१) 'अस्थि णं भन्ते! जीवा णं कक्कसवेयणिज्जा कम्मा कज्जंति ? हंता अस्थि । कहण्णं भंते! जीवा णं कक्कसवेयणिज्जा कम्मा कज्जंति ? गोयमा ! पाणाइवाएणं जाव मिच्छादंसणसल्लेणं, एवं खलु गो० जीवा णं कक्कसवेयणिज्जा कम्मा कज्जति ।
अत्थि णं भंते! णेरइया णं कक्कस० एवं चेव, एवं जाव वेमाणिआणं ।
-
यन्द्र. : अत्र = 'प्राणातिपाततः कर्कशवेदनीयं कर्म भवति' इत्यादि यत् दशम्यां एकादश्यां च गाथायां प्रतिपादितम्, तस्मिन्विषये आलापकाः = भगवतीसूत्रान्तर्गतानि सूत्राणि ।
सूत्रालापकानां भावार्थश्चायम् ।
तत्र प्रथमसूत्रम् -
'हे भदन्त ! जीवाः कर्कशवेदनीयानि कर्माणि कुर्वन्ति इति किमस्ति ?' इति गौतमप्रश्नः । 'हन्त ! अस्ति' इति भगवदुक्तमुत्तरम्।
‘हे भदन्त! जीवाः कथं = केन प्रकारेण कर्कशवेदनीयानि कर्माणि कुर्वन्ति ?' इति प्रश्नः । ‘हे गौतम! प्राणातिपातेन यावत् मिथ्यादर्शनशल्येन, एवं खलु जीवाः कर्कशवेदनीयानि कर्माणि कुर्वन्ति।' इति उत्तरम्।
अत्र प्राणातिपातः अष्टादशपापस्थानानां मध्ये प्रथमं पापस्थानं, मिथ्यादर्शनशल्यं च अष्टादशमम्, प्रथमाष्टादशमयोर्ग्रहणेन 'यावत्' पदोपादानेन च मध्यमानि षोडश पापस्थानानि ग्राह्याणि ।
तथा सामान्यत आगमशैलिरेवेयम् यदुत प्रथमं सर्वजीवान् आश्रित्य ततश्च चतुर्विंशतिदण्डकान् आश्रित्य पदार्थप्ररूपणं क्रियते । तत्र चतुर्विंशतिदण्डका इमे - सप्त नरका एको दण्डकः, दश भवनपतयश्च दश दण्डकाः, पृथ्वीकायः, अप्कायः, तेजस्कायः, वायुकायः, वनस्पतिकायः, द्वीन्द्रियाः, त्रीन्द्रियाः, चतुरिन्द्रियाः, तिर्यग्पञ्चेन्द्रियाः, मनुष्याः, व्यन्तराः, ज्योतिष्काः, वैमानिकाश्चेति ।
तत्र प्रथमं जीवानाश्रित्य प्ररूपणं कृत्वाऽधुना नारकादीनाश्रित्य तदेव प्ररूपणं कर्तुं आहइत्यादि। तथा च जीवा इव सर्वेऽपि दण्डकाः प्राणातिपातादिना कर्कशवेदनीयं कर्म कुर्वन्तीति ।
७०
या