SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ - कूपदृष्टान्तविशदीकरणं । विपरीतं आपन्नं = जिनपूजायां कर्कशवेदनीयकर्मबन्धाभावोऽत्यन्तसातवेदनीयबन्धश्च इष्यते, परन्तु तत्र प्राणातिपाते सञ्जायमाने तज्जन्यः कर्कशवेदनीयकर्मबन्धोऽसातवेदनीयबन्धश्च अनिष्टोऽपि सन् स्वीकर्त्तव्य आपद्येत इति भावः। आयुष्मतः कटाक्षभाषयोक्तमिदं पदमिति। कर्कशवेदनीयं नाम प्रभूतदुःखेन यद् वेद्यते, तत्कर्म। एतच्चाग्रे प्रदर्शयिष्यते एवेति। यशो. तस्मादयमाऽऽरम्भोऽप्यनारम्भ एव श्रद्धेय इत्याह - आरम्भो वि हु एसो, हंदि अणारम्भओ त्ति णायव्वो। वहविरईए (भगवईए), भणिअं जमकक्कसवेयणिज्जं तु ॥११॥ यन्द्र.: ननु तर्हि जिनपूजायां भवन्नारम्भः प्राणातिपातो न यदि मन्तव्यः, तर्हि किंस्वरूप स? इति जिज्ञासायामाह - तस्मात् = जिनपूजायां आरम्भस्य स्वीकारे कर्कशवेदनीयकर्मबन्धाद्यापत्तिसम्भवाद् अयं = पुष्पोपमर्दनादिरूप आरम्भोऽपि आस्तां तावत् चैत्यवन्दनादिगतोऽनारम्भ इति अपिशब्दार्थः अनारम्भ एव = 'न त्वारम्भः' इत्येवकारार्थः श्रद्धेय इत्याह - एकादश्या गाथायाः संस्कृतछाया अन्वयश्च - एष आरम्भोऽपि हन्दि अनारम्भ इति ज्ञातव्यः। यत् वधविरत्या (भगवत्यां) अकर्कशवेदनीयं भणितं तु ॥११॥ यशो.: आरम्भोऽप्येष = द्रव्यस्तवभावी, हंदीत्यामन्त्रणे, अनारम्भ इति ज्ञातव्यः, असदारम्भनिवृत्त्यंशप्राधान्यात्। यद् = यस्मात्, अकर्कशवेदनीयकर्म वधविरत्यैव बध्यत इति भणितं भगवत्याम्। यन्द्र.: ननु आरम्भोऽपि सन् 'अनारम्भ' इति कथं ज्ञातव्यः? इत्यतो हेतुमाह - असदारम्भनिवृत्त्यंशप्राधान्यात्। तथा च प्रस्तुते आरम्भे असदारम्भस्य निवृत्तिरूपो योऽशः, तस्यैव प्राधान्यमस्ति, स निवृत्त्यंशस्तु अनारम्भ एवेति तत्प्राधान्यवान् अयं आरम्भोऽपि अनारम्भ एवेति। ननु 'अत्र असदारम्भस्य निवृत्तिरेव प्रधाना' इति भवता कथं निर्णीतमिति चेत्, अत आह - यद् = यस्मात् इत्यादि। ___ अयं भावः - भगवत्यां वधविरत्यैव अकर्कशवेदनीयं कर्म सातवेदनीयबन्धश्च भणितौ। एतच्च उभयमपि द्रव्यस्तवे वर्तते, ततश्च यदि द्रव्यस्तवे आरम्भः स्यात्, तर्हि वधविरतिर्नैव स्यात्, ततश्च प्रकृतं फलमपि न स्यात्, परन्तुं तत्फलं तु अस्त्येवेति एतदेव मन्तव्यं यदुत द्रव्यस्तवे दृश्यमान आरम्भः परमार्थतोऽनारम्भ एवेति तत्र वधविरतिसद्भावात्फलं सम्भवत्येवेति।
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy