________________
कूपदृष्टान्तविशदीकरणं
आरम्भः स्यात्, तर्हि भवन्मतेन स आरम्भ आत्मस्वरूपहिंसारूप:, स च अल्पोऽपि सन् पुण्यानुबन्धिपुण्यविरोधी एवेति तत्राल्पपापं बहु च पुण्यं वक्तुं अशक्यमेवेति भावः । ननु अल्पोऽपि आध्यात्मिक आरम्भः कथं पुण्यानुबन्धिपुण्यविरोधी स्यादित्यतो हेतुमाह - व्याघाद्यपेक्षया = एकद्वित्रिचतुर्पञ्चानां मृगादिपञ्चेन्द्रियाणां प्रतिदिनं वधकारको यो व्याधादिः, तदपेक्षया कर्णजीविनामिव = नाविकानामिव अल्परसस्यापि तस्य = आध्यात्मिकारम्भस्य शुभकर्मविरोधित्वात् = सातादिबन्धप्रतिपन्थित्वात् ।
अयं भावः - व्याधादीनां आध्यात्मिक आरम्भोऽधिकः, तदपेक्षया नाविकादीनां आध्यात्मिक आरम्भोऽल्पः, परन्तु ‘नाविकादीनां व्याधाद्यपेक्षयाऽल्प आध्यात्मिक आरम्भः तस्मात्तेषां पुण्यानुबन्धिपुण्यं भवतु' इति वक्तुं नैव शक्यते। तत्राल्पोऽपि आरम्भ 'आध्यात्मिक' इति कृत्वा पुण्यानुबन्धिपुण्यप्रतिबन्धको भवत्येवेति।
एवं यदि द्रव्यस्तवे भवता आध्यात्मिक आरम्भ इष्येत, तर्हि स अन्येषामाध्यात्मिकारम्भाणामपेक्षयाऽल्पोऽपि सन् पुण्यानुबन्धिपुण्यप्रतिपन्थी स्यादेवेति अल्पोऽपि आध्यात्मिक आरम्भो विधिशुद्ध जिनपूजायां वक्तुमशक्य एव, केवलं जीववधात्मकस्यारम्भस्य तु न दूषकत्वमिति अनेकशो निगदितमेवास्ति ।
यशो. : सूक्ष्मानुपपत्तिमाह -
कक्कसवेज्जमसायं, बन्धइ पाणाइवायओ जीवो । इय भगवईइ भणियं, ता कह पूयाइ सो दोसो ॥ १० ॥
थन्द्रः एवं स्थूलदृष्ट्या सम्भवन्तीमनुपपत्तिं प्रदर्श्याधुना सूक्ष्मदृष्ट्या दृश्यमानां अनुपपत्तिमाह - दशम्या गाथायाः संस्कृतछाया अन्वयश्चैवम् ।
जीवः प्राणातिपाततः कर्कशवेद्यमसातं बध्नाति ।
इति भगवत्यां भणितम्, तस्मात् पूजायां कथं स दोषः ॥१०॥
यशो.: 'कर्कशवेदनीयमसातं बध्नाति प्राणातिपाततो जीवः' इति भणितं भगवत्यां तत्कथं | पूजायां = भगवच्चरणार्चायां, स प्राणातिपाताख्यो दोष: अल्पोऽपि ?, हि तस्मिन् सति कर्कशवेदनीयं कर्म बध्येताऽसातवेदनीयं च इष्यते च भगवत्पूजया कर्कशवेदनीयकर्माऽबन्ध: स्वल्प ( अत्यंत ) | सातवेदनीयबन्धश्चेति विपरीतमापन्नमायुष्मतः ॥१०॥
चन्द्र. : तस्मिन् सति = प्राणातिपाते सति।
ननु जिनपूजायां प्राणातिपातोऽस्त्येव, तथा प्राणातिपातेन कर्कशवेदनीयकर्मणो असातवेदनीयस्य च बन्धोऽपि अस्त्येव, भवतां नाम एतौ द्वौ पदार्थों, को दोषः ? इति चेत्, अरे मुग्ध ! तर्हि जिनपूजायां प्राणातिपातेन कर्कशवेदनीयं असातं च स्यात्, इष्यते च इत्यादि ।
૬૮