SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ - कूपदृष्टान्तविशदीकरणं । इदमेव च समूहालम्बनस्य विशिष्टज्ञानस्य च मध्येऽन्तरमस्ति, यदुत समूहालम्बने अविधिरपि विशेष्यः, ततश्च तस्य प्राधान्यात् तस्याल्पपापकर्मात्मकं फलं मन्तव्यं स्यात्। भक्तिस्तु विशेष्या अस्त्येवेति तस्या अपि प्राधान्यात् तस्या बहुपुण्यात्मकं फलं मन्तव्यं स्यात्, इत्थं चैकस्मिन्काले मिश्रकर्म मन्तव्यं स्यात्। ___ विशिष्टज्ञाने तु विधिभक्ति-उभयसत्त्वे भक्त्यध्यवसाय एव विधि-अध्यवसायोपायभूतः सन् सम्पूर्णं फलं ददाति। अविधिभक्तिसत्त्वे तु अविधिः न स्वतन्त्रो विशेष्यः, अपि तु अविधिविशिष्टाया भक्तेरध्यवसायोऽत्र प्रवृत्त इत्येव मन्तव्यम्। ततश्च अविध्युपायभूतस्य भक्तिभावस्य विध्युपायभूतभक्तिभावसकाशात् मन्दत्वमिति कृत्वा स प्रतिपादितस्य सम्पूर्णफलस्यापेक्षयाऽल्पं फलं ददाति। न तु अविधिः अल्पं पापं, भक्तिः सम्पूर्णं पुण्यं, सम्पूर्णपुण्याच्चाल्पपापकर्मणो हानि कृत्वाऽवशिष्टं फलं परिगणनीयमिति। ___ तस्मादत्रायमेव सारो यदुत लोकेऽपि अयं व्यवहारो दृश्यते,यत् यदि ग्राहकस्य दायकसकाशात् सहस्रं ग्राह्य, देयं तु न किञ्चिदपि, तदा ग्राहको बलवान् गण्यते, स च सहस्रं गृह्णाति। यदा तु ग्राहकस्य दायकसकाशात्सहस्रं ग्राह्यं, किन्तु तस्यैव दायकस्य व्यापारान्तरापेक्षया शतं देयं, तदा स ग्राहको न सहस्रं गृहीत्वा शतं ददाति। न वा लोको वदति यत् अयं सहस्रस्य ग्राहकः। किन्तु स ग्राहको नवशतकस्यैव ग्राहको गण्यते, लोकेऽपि स नवशतकं गृह्णाति, न तु किञ्चिदपि ददाति। अत्र अयं ग्राहको सहस्रग्राहकापेक्षयाऽल्पबलवान् गण्यते। एवमेव विधिभक्तिकाले भक्त्यध्वसाय: केवलं पुण्यस्य ग्राहक एव, नतु दायक इति स सर्वं पुण्यं गृह्णाति। अविधिकाले तु भक्त्यध्यवसायो ग्राहको दायकश्चेत्येवं स प्रतिपादितभक्त्यध्यवसायापेक्षया मन्दः सन् अल्पं पुण्यं गृह्णाति, न तु किञ्चिदपि ददाति। अर्थात् न पापस्य बन्धो भवति। अत्यन्तं गहनमिदं तत्त्वं सूक्ष्मधिया विभावनीयम्। यशो. : तथा चाविध्यंशे उत्कटत्वेऽशुद्ध एव, भक्त्यंशे पुनरुत्कटत्वे शुद्ध एव योग इत्येतन्मते एकस्माद्योगादेकदैक एव बन्धः। यन्द्र.: एतदेव महोपाध्यायाः प्राहुः तथा च अविध्यंशे उत्कटत्वे अशुद्ध एव = न तु शुद्ध इत्येवकारार्थः, योग इति सम्बन्धः कार्यः। भक्त्यंशे पुनरुत्कटत्वे शुद्ध एव = न तु अशुद्धः योग इति एवंरीत्या एतन्मते = निश्चयनयमते एकस्माद्योगात् = शुद्धादशुद्धाद् वा एकदा = एकस्मिन् काले एक एव = पुण्यस्य पापस्य वा, न तु उभयस्येत्येवकारार्थः। अत्र मन्दमतिप्रबोधार्थं स्थूलदृष्ट्या कोष्ठकं दर्श्यते।
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy