________________
कूपदृष्टान्तविशदीकरणं
अविधि : विधि:
अभक्तिः भक्तिः पुण्यकर्म पापकर्म
(१) 0%
100%
0% 100% 100% X
(२)
30%
70%
30%
70%
70%
X
(३)
49%
51%
49%
51%
51%
X
(४)
100%
0%
100%
0%
X
100%
(५) 70% 30%
70%
30%
X
70%
(६) 51%
49%
51% 49%
X
51%
अत्र कुत्रापि मिश्रयोगत्वं मिश्रकर्मत्वं वा न भवति ।
श्रेष्ठः शुद्धयोगः
मध्यमः शुद्धयोगः
जघन्यः शुद्धयोगः श्रेष्ठः अशुद्धयोगः
मध्यमः अशुद्धयोगः
जघन्यः अशुद्धयोगः
यशो. : बन्धकालस्य प्रदीर्घत्वात् परिणामपरावृत्त्या च मिश्रत्वं भावनीयम्,
चन्द्रः नन्वेवं मिश्रयोगस्य व्यवहारः कथं भवेदित्यत आह बन्धकालस्य = पुण्यबन्धस्य पापबन्धस्य च यः कालः, तस्य प्रदीर्घत्वात् परिणामपरावृत्त्या च = अविध्यंशोत्कटपरिणामाद विध्यंशोत्कटपरिणामः, तस्माच्च पुनरपि अविध्यंशोत्कटपरिणामः, तस्माच्च पुनरपि विध्यंशोत्कटपरिणाम इत्येवं परिणामस्य परावर्तनेन च मिश्रत्वं भावनीयम् ।
यदि हि बन्धकाल एकसमयभावी एव स्यात्, तर्हि एकस्मिन्समये तु एक एव शुद्धोऽशुद्धो वा योगः स्यादिति योगमिश्रत्वं न स्यात् ।
एवं यदि बन्धकालस्य प्रदीर्घत्वेऽपि यदि दीर्घकालं यावत् एक एव शुद्धोऽशुद्धो वा योगः स्यात्, तदाऽपि योगमिश्रत्वं न स्यात् ।
ततश्च मिश्रयोगत्वाय बन्धकालस्य प्रदीर्घत्वं परिणामपरावर्तनं चावश्यकमिति कृत्वोभयमप्यत्र प्रदर्शितम् । योगे मिश्रत्वमिव कर्मण्यपि एवं उपचारतो मिश्रत्वं भावनीयम् ।
न तु एकस्मिन्नेव समये शुद्धाशुद्धोभययोगरूपं मिश्रत्वं, न वा एकस्मिन्नेव समये पुण्यपापोभयबन्धरूपं मिश्रत्वमिति ।
=
यशो. : एकधारारूढे तु भक्तिभावेऽविधिदोषोऽपि निरनुबन्धतया द्रव्यरूपतामश्नुवंस्तत्र भग्न इवावतिष्ठते ।
थन्द्रः ननु बन्धकालः प्रदीर्घोऽस्ति, परन्तु यस्य सततं भक्तिभाव एव उत्कटो भवेत्, न तु अन्तरा कुत्रापि अविधिभाव उत्कटो भवेत्, तस्य स अनुत्कटोऽविधिभावः कीदृशः स्यादिति जिज्ञासायामाह - एकधारारूढे प्रदीर्घकालं यावत् उत्कटतां बिभ्राणे भक्तिभावे सति अविधिदोषोऽपि = अनुत्कटोऽविधिदोषोऽपि, सर्वथाऽविधिदोषाभावे तु प्रश्नावकाश एव न, किन्तु योऽनुत्कटोऽविधिदोषोऽस्ति, सोऽपि इत्यपिशब्दार्थः निरनुबन्धतया = उत्तरोत्तरानुष्ठाने भवनं सानुबन्धत्वं, तद्रहितत्वं निरनुबन्धत्वं,
૫૭