________________
- - कूपदृष्टान्तविशदीकरणं । ज्ञाने विद्यत इति कृत्वेदं ज्ञानं समूहालम्बनम्। इदं च स्वीकृतमेव। तस्मिंश्च 'भगवान् पूज्य' इत्यंशे भक्तिभावः, 'मुधालभ्यानि तुच्छाण्यपि पुष्पाणि आनेतव्यानि' इत्याद्यंशे अविधिभावः। तथा च समूहालम्बनरूपे एकस्मिन्नेवाध्यवसाये अविधिभक्तिभावसम्भवात्, एकस्मिन्नेव अध्यवसाये शुद्धाशुद्धोभयस्वरूपं मिश्रत्वमापतितमेवेति शास्त्रे तस्य प्रतिपादनं कर्त्तव्यमेव, ततश्च किमर्थं तस्य प्रतिपादनं न कृतमिति।
समादधति महोपाध्यायाः - समूहालम्बनज्ञानस्य विशेषणीयत्वात् विशिष्टज्ञानरूपतया स्वीकरणीयत्वात्। तत् समूहालम्बनरूपतया न, किन्तु विशिष्टज्ञानरूपतयैव स्वीकर्तव्यमिति। __ अयं भावः - 'घटपटौ नीलपीतौ' इत्यत्र नानाविशेष्यतासद्भावात्समूहालम्बनत्वम्, परन्तु नीलघटवान् पीतपट इत्येवंरूपं यदि ज्ञानं मन्येत, तर्हि नीलघटविशिष्टो य: पीतपटः, स एवात्र विशेष्य इति कृत्वेदं ज्ञानं न नानाविशेष्यताशालि, अत एव न समूहालम्बनं, परन्तु विशिष्टज्ञानमेव।
प्रकृते हि अविधिविशेष्यको भक्तिविशेष्यकश्चेत्येवं यदि विशेष्यकद्वयवानध्यवसाय: स्वीक्रियेत, तर्हि एकस्मिन्नेव काले शुभाशुभाध्यवसायमिश्रणात् मिश्रं कर्म मन्तव्यं स्यात्, न च तत् शास्त्रे प्रोक्तम्। तस्मादत्र समूहालम्बनरूपोऽध्यवसायो नैव मन्तव्यः, किन्तु विशिष्टाध्यवसाय एव मन्तव्यः, तथा चाविधिविशिष्टभक्तिविशेष्यकोऽध्यवसायोऽत्र विशिष्टोऽध्यवसाय इति न मिश्रकर्म मन्तव्यं स्यात्।
ननु समूहालम्बनं त्यक्त्वा विशिष्टाध्यवसायस्वीकारेण मिश्रबन्धापत्तिः कथं निरस्ता भवतीति स्पष्टं न ज्ञायते? इत्यत आह - विध्यौपयिकस्य = विधिप्राप्त्युपायभूतस्य विशिष्टोपयोगस्य = भक्त्युपयोगस्य एवं = समूहालम्बनत्वं त्यक्त्वा विशिष्टाध्यवसायत्वस्वीकरणेन अधिकृतत्वात् = स्वीकृतत्वात् महाभाष्ये इति युक्तं = 'एतदेव शोभनं' इत्येवं उत्पश्यामः = वयं यशोविजयिनो मन्यामहे।
इदमत्र तात्पर्यम्।
यस्मिन्ननुष्ठाने विधिर्भक्तिश्च स्तः, तस्मिन्ननुष्ठाने यदि कल्पनातो लक्षरूप्यकसदृशं पुण्यं बध्येत, तर्हि तत्र 'विधिना त्रिंशत्सहस्रसदृशं भक्त्या च सप्ततिसहस्रसदृशं पुण्यं बद्धम्' इत्येवं न मन्तव्यम्। किन्तु भक्तिरेव लक्षरूप्यकसदृशं पुण्यं बन्धयति' इत्येवं मन्तव्यम्। केवलं स्वामिसदृशी भक्तिः सेवकसदृशस्य विधे: सहायं विना तादृशं पुण्यं नैव बन्धयतीत्यत्र भक्ति: सेवकसदृशं विधिं आदिश्य तत्साहाय्येन तादृशं पुण्यं बन्धयतीत्येवं विधेः उपायभूताऽत्र भक्तिः सम्पूर्णं फलं ददाति।
यस्मिन्ननुष्ठाने अविधिभक्तिश्च स्तः, तस्मिन्ननुष्ठाने यदि कल्पनातो सप्ततिसहस्ररूप्यकसदृशं पुण्यं बध्येत, तर्हि एवं न मन्तव्यं यदुत भक्तिरत्र लक्षं ददाति अविधिस्तु त्रिंशत्सहस्रसदृशं पापं ददाति, ततश्च लक्षपुण्यात् तादृशं पापं निराकृतं सत् अवशिष्टं सप्ततिसहस्रं पुण्यं इति।
किन्तु अत्रेदमेव मन्तव्यं यदुत अत्र भक्तिस्वरूप: स्वामी न सक्षमः, ततश्च स न सम्पूर्णविधेरुपायभूतः, अतोऽत्राविधिः प्रवृत्ता। ततश्चात्र मन्दा भक्तिः अविध्युपायभूताऽभवदिति कृत्वाऽत्राविधिभक्तिसमन्वितमनुष्ठानमस्ति। परन्तु भक्तेर्मन्दत्वादेव सा सप्ततिसहस्रसदृशं पुण्यं ददाति।