________________
-
कूपदृष्टान्तविशदीकरणं
७
देवत्वमवाप्तवती। ततस्तस्याः कलेवरमवनिपीठलोठितमवलोक्याऽनुकम्पापरीतान्त:करणो लोको मूर्छितेयमिति मन्यमानोऽम्भसा सिषेच। ततस्तामपरिस्पन्दामवलोक्य लोको भगवन्तं पप्रच्छ, 'भगवन् ! असौ वृद्धा किं मृतोत जीवतीति?' भगवांस्तु व्याजहार यथा - 'मृताऽसौ देवत्वं चावाप्ता। ततः पर्याप्तिभावमुपागत्य प्रयुक्तावधिः पूर्वभवानुभूतमवगम्य मद्वन्दनार्थमागतः, स चायं मत्पुरोवर्ती देव इति। ततो भगवदभिहितमिदमनुश्रुत्य समस्तः स समवसरणधरणीगतो जनः परमं विस्मयमगमत्। यथा 'अहो! पूजाप्रणिधानमात्रेणापि कथममरतामवाप्तासाविति'। ततो भगवान्गम्भीरां धर्मकथामकथयत्, यथा-स्तोकोऽपि शुभाध्यवसायो विशिष्टगुणपात्रविषयो महाफलो भवति। यत: "इक्कंपि उदगबिन्दु, जह पक्खित्तं महासमुइंमि। जाए अक्खयमेवं, पूयावि जिणेसु विनेया।। उत्तमगुणबहुमाणो, पयमुत्तमसत्तमज्झयारंमि। उत्तमधम्मपसिद्धी, पूयाए जिणवरिंदाणं" ।। (पूजापञ्चा. गा. ४७-४८) ति। ततो भगवांस्तत्सम्बन्धिनं भाविभवव्यतिकरमकथयत्। यथा-अयं दुर्गतनारीजीवो देवसुखान्यनुभूय ततश्च्युतः सन् कनकपुरे नगरे कनकध्वजो नाम नृपो भविष्यति। स च कदाचित्प्राज्यं राज्यसुखमनुभवन् मण्डूकं सर्पण, सर्प कुररेण, कुररमजगरेण, तमपि महाहिना ग्रस्यमानमवलोक्य भावयिष्यति, यथा - 'एते मण्डुकादयः परस्परं ग्रसमाना महाहेर्मुखमवशा विशन्ति, एवमेतेऽपि जना बलवन्तो दुर्बलान्यथाबलं बाधयन्तो यमराजमुखं विशन्ति' इति भावयंश्च प्रत्येकबुद्धो भविष्यति। ततो राज्यसम्पदमवधूय श्रमणत्वमुपगम्य देवत्वमवाप्स्यति। एवं भवपरम्परयाऽयोध्याया नगर्याः शक्रावतारनाम्नि चैत्ये केवलश्रियमवाप्य सेत्स्यति इति गाथार्थः।"
यन्द्र.: ननु दुर्गतनारीदृष्टान्तं ज्ञातुमीहते मन्मन इति चेत् दुर्गतनारीज्ञातं चैवम् = ज्ञातं = उदाहरणम्। प्राय: सर्वं स्पष्टम्। नवरं विषमा: पदार्थाः स्पष्टीक्रियन्ते। पुत्रीयितेत्यादि = पुत्रमिव आचरितः स्नेहविषयीकृतो निखिलो भुवनजनो येन स तथा, गुणग्रामः = गुणसमूहः । पृथुः = विस्तृता। चराः = किङ्कराः विसरः = समूहः । प्रौढपत्तयः = विशिष्टाः सुभटाः । सिन्धुरः = हस्ती मागधाः = गायकविशेषाः भेरीभाङ्कारः = भेरी नाम वाद्यविशेषः, तस्य शब्दो भाङ्कारः' उच्यते।
पुलकाः = रोमाञ्चाः, ते कण्टका इव सञ्जाता यस्मिन्काये, स पुलककण्टकित: कायः, तादृशः कायो यस्याः सा।
पूजापञ्चाशकगतगाथाद्वयसङ्केपार्थस्त्वयम् - यथा एकोऽपि उदकबिन्दुः महासमुद्रे प्रक्षिप्तः सन् अक्षतं जायते, एवं जिनेषु पूजाऽपि विज्ञेया। उत्तमगुणबहुमानं उत्तमजीवानां मध्ये पदं = स्थानं (प्रापयति)। जिनवरेन्द्राणां पूजया उत्तमधर्मस्य = चारित्रस्वरूपस्य प्रसिद्धिः = प्राप्तिर्भवति।
कुररः = तिर्यग्विशेषः, 'नोळिया' इति गुर्जरभाषामध्ये प्रसिद्धः।