SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ - कूपदृष्टान्तथिशदीकरणं । चत्वारि सदनुष्ठानानि सन्ति - प्रीति: भक्तिः वचनं असङ्गानुष्ठानं च। तानि च उत्तरोत्तरं प्रधानानि। तत्रास्तां तावद् वचनासङ्गानुष्ठाने, किन्तु द्वितीयं भक्त्यनुष्ठानमपि अविधिदोषं = यदि अनुष्ठाने अज्ञानप्रमादादितोऽविधिदोषो भवति, तदापि तं दोषं निरनुबन्धीकृत्य = 'उत्तरकालीनसदनुष्ठाने पुनः स न भवेत्' इत्येतादृशं शक्तिरहितं कृत्वा परम्परया = स्वर्गादिक्रमेण मुक्तिजनकम् = मोक्षसाधकम् इति केचित् ब्रुवते। यशो. : हरिभद्राचार्यास्तु 'अभ्युदयफले चाद्ये निःश्रेयससाधने तथा चरमे' (षो०१०) इत्याहुः। आद्ये = प्रीतिभक्त्यनुष्ठाने, चरमे = वचनाऽसङ्गानुष्ठाने। यन्द्र.: द्वितीयं हरिभद्राचार्याणां मतं प्रदर्शयति - हरिभद्राचार्यास्तु अभ्युदयफले चाद्ये इत्यादि। प्रीत्यनुष्ठानं भक्त्यनुष्ठानं च स्वर्गमेव ददाति, न मोक्षं। मोक्षं तु वचनानुष्ठानं असङ्गानुष्ठानमेव च ददाति। प्रथममतेन भक्त्यनुष्ठानं वचनासङ्गानुष्ठाने व्यापारीकृत्य मोक्षं ददाति इति उच्यते। हरिभद्राचार्यमतं तु इदं यदुत भक्त्यनुष्ठानं वचनासङ्गानुष्ठाने प्रति भवतु नाम कारणम्, किन्तु मोक्षं प्रति तस्य कारणत्वं नैवास्ति, न हि तत् एतादृशं समर्थं, यदुत तत् वचनासङ्गानुष्ठाने व्यापारीकृत्य मोक्षं ददातीति। एतत्तत्त्वं तु विस्तरभियाऽधुनोपेक्ष्यते।। यशो.: दुर्गतनारीज्ञातं चैवं - श्रीमन्महावीरवर्द्धमानस्वामी इक्ष्वाकुकुलनन्दनः प्रसिद्धसिद्धार्थपार्थिवपुत्रः पुत्रीयितनिखिलभुवनजनो जनितजनमनश्चमत्कारगुणग्रामो ग्रामाकरनगरपृथु | पृथिवीं विहरन्नन्यदा कदाचित्काकन्दीनामिकायां पुरि समाजगाम। तत्र चाऽमरचरविसरविरचितसमवसरणमध्यवर्तिनि भगवति धर्मदेशनां विदधति नानाविधयानवाहनसमारूढप्रौढपत्तिपरिगते सिन्धुरस्कन्धमधिष्ठिते छत्रच्छन्ननभःस्थले मागधोद्गीतगुणगणे भेरीभाङ्कारभरिताम्बरतले नरपतौ तथा तद्विधवरवैश्यादिकपुरजने तथा गन्धधूपपटलप्रभृतिपूजापदार्थव्यग्रकरकिङ्करीनिकरपरिगते विविधवसनाभरणरमणीयतरशरीरे नगरनारीनिकरे भगवतो वन्दनार्थं व्रजति सति एकया वृद्धदरिद्रयोषिता जलेन्धनाद्यर्थं बहिर्निर्गतया कश्चिन्नरः पृष्ट: 'क्वाऽयं लोक एकमुखस्त्वरितं याति?' तेनोक्तं 'जगदेकबान्धवस्य देहिनां जरामरणरोगशोकदौर्गत्यादिदुःखछिदुरस्य श्रीमन्महावीरस्य वन्दनपूजनाद्यर्थम् । ततस्तच्छ्रवणात् तस्या भगवति भक्तिरभवत्। अचिन्तयच्च, अहमपि भगवतः पूजार्थं यत्नं करोमि, केवलमहमतिदुर्गता पुण्यरहिता विहितपूजाङ्गवर्जितेति। ___ ततोऽरण्याऽऽदृष्टानि मुधालभ्यानि सिंदुवारकुसुमानि स्वयमेव गृहीत्वा भक्तिभरनिर्भराङ्गी 'अहो! | धन्या पुण्या कृतार्था कृतलक्षणा, सुलब्धं मम जन्म, जीवितफलं चाहमवाप' इति भावनया पुलककण्टकितकाया प्रमोदजलप्लावितकपोला भगवन्तं प्रति प्रयान्ती समवसरणकाननयोरन्तराल एव वृद्धतया क्षीणायुष्कतया च झगिति पञ्चत्वमुपगता। ततः सा विहितपूजाप्रणिधानोल्लसितमानसतया
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy