SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ यशोः यतनां चात्र स्नानपूजादिगतामित्थमादिशन्ति "भूमीपेहणजलच्छाणणाइ, जयणा उ होइ न्हाणादौ । एत्तो विसुद्धभावो, अणुहवसिद्धो च्चिअ बुहाणं" ।। 'एसो चेव इहं विही, विसेसओ सव्वमेव जत्तेणं । जह रेहंति तह सम्मं, कायव्वमणण्णचिट्ठेणं ।। वत्थेण बंधिऊणं, णासं अहवा जहा समाहीए । वज्जेयव्वं तु तहा, देहम्मि वि कंडुयणमाइ " ॥ (पूजापञ्चाशके गा. ११-१९-२० ) ॥ इत्यादि ॥ ६ ॥ 44 कूपदृष्टान्तविशदीकरणं थन्द्र.: ननु ज्ञातं तावत् दुर्गतनार्युदाहरणमधुना स्नानादिसम्बन्धिनीं यतनां ज्ञातुमिच्छामीति जिज्ञासायां आह - यतनां चात्र = सर्वज्ञशास्त्रे स्नानपूजादिगताम् = 'गृहस्थेन पूजार्थं स्नानं कथं कर्तव्यं ?' इत्येवंरूपां 'गृहस्थेन पूजा कथं कर्त्तव्या ?' इत्येवंरूपां च इत्थं = प्रतिपादयिष्यमाणप्रकारेण आदिशन्ति = शास्त्रकर्तार हरिभद्रसूरिः इति । पूजापञ्चाशकगतगाथायाः सङ्क्षेपार्थस्त्वयम् - यस्यां भूमौ स्नानं कर्त्तव्यं, सा प्रथमं प्रेक्षणीया । तथा जलं गालनीयम्। एवमादिरूपा यतना स्नानादौ भवति। अस्मात् यतनायुक्तात् स्नानात् बुधानां विशुद्धभावोऽनुभवसिद्ध एव (तस्मात् यतनायुक्तं स्नानं कर्तव्यमिति भावार्थ : ) । एषा तावत्स्नानगता यतना निगदिता । अधुना पूजागतां यतनामाह एष एव विधि इह = पूजायां द्रष्टव्यः, विशेषतोऽयं विधिः यदुत यथा सर्वं सम्यग् शोभते, तथा अनन्यचेष्टेन = पूजां विना अन्यकार्येषु चेष्टारहितेन यत्नेन सर्वं सम्यग् कर्त्तव्यमिति । वस्त्रेण नासिकां बद्ध्वा पूजा कार्या, अथवा यथासमाधि पूजा कार्या । अर्थात् श्वासोच्छ्वासग्रहणे असमाधौ सत्यां तु वस्त्रेण नासिकां अबद्ध्वापि जिनपूजा कार्या । तथा पूजासमये स्वदेहेऽपि कण्डूयनादि वर्जनीयमिति । एवं तावदत्यन्तं संक्षेपत उक्तम् । विस्तरार्थिना तु पञ्चाशकवृत्तिः अवलोकनीया । = - ૫૧
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy