________________
-
कूपदृष्टान्तविशदीकरणं । तथा च गीतार्थत्वं कृतयोगित्वं रागरहितत्वं द्वेषरहितत्वं कारणसहितत्वं यतना चेत्येवमेतानि पदानि यस्य समीपेऽस्ति, स अशुद्धग्रहणेऽधिकारीति। एतादृशः साधुः यदि अशुद्धग्रहणं करोति, तर्हि तस्य अल्पोऽपि पापकर्मबन्धो नास्त्येव। किन्तु प्रकृतानां पदानां मध्यात् प्रथमस्य द्वितीयस्य तृतीयादेर्वाऽभावे यदि स अशुद्धं गृह्णाति, तर्हि स अविधिं करोति, ततश्च अविधिप्रयुक्तोऽल्पकर्मबन्धस्तस्य भवत्येव। ___ इत्थं चात्रापि यदि सर्वपदैः समन्वितोऽशुद्धग्रहणं करोति, तर्हि तस्य तद्ग्रहणं विधिशुद्धमेवेति नाल्पोऽपि पापबन्धः, गीतार्थत्वाद्यन्यतरपदविकलस्तु अशुद्धग्रहणं यदि करोति, तर्हि तत् अविधिसमन्वितमिति कृत्वा भवत्येवाल्पपापबन्ध इति।
गीतार्थान्यतर इत्यशुद्धोऽयं पाठ: प्रतिभाति, गीतार्थत्वाद्यन्यतरपदवैकल्य इत्येवं पाठो युक्त आभाति। तत्साकल्ये = गीतार्थत्वादीनां पदानां सम्पूर्णतायां सत्यां स्वल्पस्यापि = आस्तां बहोरिति अपिशब्दार्थः पापस्यासम्भवात्। ॥ यशो.: व्यवहारतो बाधकस्याबाधकत्वात्,
यन्द्र.: ननु 'व्यवहारतो जीवघातेन चारित्रबाधनाच्च पापं कर्म' इति उक्तमेवेति चेत्, असत्यं तत्, यस्मात् व्यवहारतो बाधकस्य = अविध्यभावेन निश्चयतस्तावत् लेशतोऽपि चारित्रस्य बाधको जीवघातो नास्त्येव। यस्तु बाह्यहिंसामात्रादेव व्यवहारतो बाधको जीवघातः, स चारित्रस्य बाधको नैव भवतीति तत्र स्वल्पोऽपि पापबन्धो नास्त्येवेति स्पष्टम्। | यशो. : स्वहेतुसामर्थ्यस्य द्रव्यभावाभ्यामुपपत्तेः।
यन्द्र.: ननु ‘स्वहेतुसामर्थ्यापेक्षया बहुतरा निर्जरा, निर्जरापेक्षया चाल्पतरं पापं भवति' इति पूर्वमुक्तम्। यदि च व्यवहारतो बाधको जीवघातः सर्वथैवाबाधकः, तर्हि तत्र अल्पतरपापस्यैवाभावात् तद्धेतोः सामर्थ्यमपि वक्तुमशक्यमेवेति चेत् न, स्वहेतुसामर्थ्यस्य = अल्पपापात्मकं यत् स्वं, तस्य हेतुभूतो यो जीवघातः, तत्सामर्थ्यस्य द्रव्यभावाभ्यां उपपत्तेः।। ___ अयमाशयः - गीतार्थत्वादिपदसाकल्ये सति जीवघातस्याल्पपापकारणतासामर्थ्य द्रव्यत एवेति तत्र जीवघातो न लेशतोऽपि पापकर्मबन्धं प्रति कारणं भवति। ____गीतार्थत्वाद्यन्यतरपदवैकल्ये तु जीवघातस्याल्पपापकारणतासामर्थ्य भावत इति तत्र जीवघातोऽल्पपापबन्धकारणं भवति।
एवं चाल्पपापबन्धरूपस्य स्वस्य हेतुर्यो जीवघातः, तस्य सामर्थ्य द्रव्यभावाभ्यां द्विविधमस्ति। ततश्च गीतार्थत्वाद्यन्यतरपदवैकल्ये एव तस्य भावत: सामर्थ्य, तदेव चाल्पपापकारणं, सर्वपदसाकल्ये तु तस्य द्रव्यतः सामर्थ्य, तत्तु नाल्पस्यापि पापस्य कारणमिति।