SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ कूपदृष्टान्तविशदीकरणं तदैव तन्मतं सत्यं मन्तव्यम् । अर्थात् कारणे सति यदाऽशुद्धदानं दीयते, तदैव तदशुद्धदानं अल्पतरपापबहुतरनिर्जराकारणं मन्तव्यम्, न तु कारणाभावे । यस्मात् कारणाभावे तु यदशुद्धदानं दीयते, तत् दातृगृहीत्रोः उभययोरपि अहितकारि प्रोक्तम् । न च यत् अल्पपापबहुनिर्जराकारणं, तत्‘अहितकारि’ इति वक्तुं युज्यत इति । तथा च कारणे सति सुपात्रायाशुद्धदानं अल्पपापादिकारणं, कारणाभावे तु सुपात्राय अशुद्धदानं अहितकारि इति । अत्र केषाञ्चिन्मतं समाप्तम्। एतदेव मतं यत्तु इत्यादिना असंथरणे इत्यन्तेन पाठेनात्र प्रदर्शितम् । = अक्षरार्थस्तु भावार्थानुसारेण सुगम एव । नवरं निशीथभाष्यगाथायाः स्पष्टार्थस्त्वयम् → संस्तरणे : निर्वाहे सति अशुद्धं अशनादिकं गृह्णद्ददतोः द्वयोरपि अहितं भवति । असंस्तरणे सति तदेव च = अशुद्धं आतुरदृष्टान्तेन = रोगिदृष्टान्तेन हितं भवति। ग्लानत्वाद्यभावे सति साधोर्यदा अशुद्धं विनाऽपि निर्वाहो भवति, तदा यदि गृहस्थोऽशुद्धं ददाति, साधुश्च गृह्णाति, तदा निष्कारणं आज्ञाभङ्गादिदोषप्रवृत्तिसकाशादहितं भवति । यदा तु ग्लानत्वादिवशात् अशुद्धं विना निर्वाहो न भवति, तदा अशुद्धग्रहणदानकरणे उभययोरपि हितं भवति । यथा नीरोग्यवस्थायां यदौषधं अहितकारि, रोग्यवस्थायां तदेव हितकारि। ← इति । अत्र केषाञ्चिन्मते कारणे सति अशुद्धदानं अल्पपापादिकारणं प्रतिपादितम् । कारणाभावे तु अहितमेव प्रतिपादितम्। ततश्च भवतीयमाशङ्का यदुत 'हे महोपाध्यायाः । यतनासत्त्वे अल्पोऽपि पापबन्धो नैव स्यात् इति भवतां मतम्। प्रकृतमते तु कारणे सति अशुद्धदानं अल्पपापादिकारणं प्रतिपादितमेव । कारणे सति अशुद्धदानं तु विधिस्वरूपयतनासमन्वितमेव, ततश्च भवदुक्तरीत्याऽत्राल्पोऽपि पापबन्धो नैव भवितुमर्हति, परन्तु कैश्चित्तदुच्यत एव । ततश्च किमत्र समाधानमिति प्रकाशयन्तु भवन्तः' इति यशो. : तद् गीतार्थाद्यन्यतरपदवैकल्य एव युज्यते, तत्साकल्ये स्वल्पस्यापि पापस्याऽसम्भवात्, महोपाध्यायाः प्राहुः - तद् गीतार्थाद्यन्यतरपदवैकल्य एव युज्यते इत्यादि । अयं भावः - 'अशुद्धग्रहणं कः करोति ?' इत्यत्र शास्त्रे व्यवस्था कृताऽस्ति यदुत ( १ ) यो गीतार्थो भवति, (२) यश्च कृतयोगी भवति, (योगोद्वहनादिना तपोभावितदेहो भवतीति यावत्) (३-४) यश्च रागरहितो द्वेषरहितश्च भवति, (५) यश्च सकारणो भवति, (६) यश्च बहुतरासत्प्रवृत्तेः या विनिवृत्तिः, तस्याः साधिकां चेष्टां यतनात्मिकामाचरति, स अशुद्धग्रहणेऽधिकारी भवति । ૪૧
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy