________________
-
कूपदृष्टान्तविशदीकरणं
-
यशो.: अयमेवातिदेशो विधिशुद्धजिनपूजायां द्रष्टव्यः ।
यन्द्र.: एवं तावत् गीतार्थत्वादिपदसाकल्ये अशुद्धग्रहणं नाल्पस्यापि पापस्य कारणमिति प्रतिपादितम्, अधुना एतदेव सर्वं विधिशुद्धायां जिनपूजायां योजयन्नाह - अयमेवातिदेश इत्यादि। एकत्र प्रतिपादितस्य तत्त्वस्यान्यत्र निर्देशमानं अतिदेशः। प्रकृते तु गीतार्थत्वादिपदसाकल्ये सति अशुद्धग्रहणे स्वल्पस्यापि पापस्याभावरूपो यः पदार्थः प्रतिपादितः, स एव अतिदेशस्वरूपः सन् विधिशुद्धजिनपूजायां द्रष्टव्यः ।
अयं भावः-यद्यपि विधिशुद्धजिनपूजायां जीवघातो भवति, तथापि तस्याल्पपापं प्रति सामर्थ्य द्रव्यत एवेति स अल्पपापं तत्र न बध्नाति। अविधियुतायां तु जिनपूजायां तस्याल्पपापं प्रति सामर्थ्यं भावत इति स अल्पपापं बध्नाति तत्रेति।। ___ यशो. : अन्यैस्तु - अकारणेऽपि गुणवत्पात्रायाप्रासुकादिदाने परिणामवशात् बहुतरा निर्जरा अल्पतरं च पापकर्मेति च प्रतिपादितम्, परिणामप्रामाण्यात् । “संथरणंमी०" त्यादौ अशुद्धं द्वयोरपि दातृगृहीत्रोरहितायेति च व्यवहारतः संयमविराधकत्वात् दायकस्य लुब्धकदृष्टान्तभावितत्वेनाव्युत्पन्नत्वेन च देवगतौ शुभाल्पाऽऽयुष्कतानिमित्तत्वादिति योजितम्।
यन्द्र.: सुपात्रायाशुद्धदाने केषाञ्चिन्मतं प्रदर्श्य, तत्र च स्वाभिप्रायं स्पष्टीकृत्याधुना तत्रैवान्येषां मतं प्रतिपादयन्नाह - अन्यैस्तु इत्यादि। अत्र अन्यैस्तु इत्यस्य योजितम् इत्यनेन सहान्वयः कर्त्तव्यः ।
अत्रापि प्रथमं भावार्थो निगद्यते, पश्चादक्षरार्थः।
पूर्वं यत्प्रतिपादितं यदुत "कारणे सत्येव सुपात्रस्याशुद्धदानं द्वयोर्हिताय, कारणाभावे तु अहिताय" इत्यादि। तन्न, यस्मात् कारणाभावेऽपि यदा सुपात्रस्य भक्तिभावेनाशुद्धं दानं दीयते, तदा भक्तिपरिणाममाहात्म्यात् बहुतरा निर्जरा, मुग्धतावशाच्चाल्पपापकर्म भवति। बहुतरनिर्जराऽल्पपापकर्मकारणं च हितायैवेति।
यत्तु 'संथरणंमि असुद्धं' इत्यादिगाथायामकारणेऽशुद्धदानग्रहणयोः पक्षद्वयं प्रत्यहितत्वं प्रतिपादितम्, तत्तु सापेक्षमेवाहितं ग्राह्यम्। यस्मात्तत्र सुसाधुः व्यवहारतः संयमविराधको भवतीति कृत्वा तदशुद्धं तस्याहितम्। दायकस्तु गृहस्थो लुब्धकदृष्टान्तभावितः, अत एवाव्युत्पन्न इति कृत्वा देवगतौ अल्पायुष्कतां प्राप्नोतीति कृत्वा तदशुद्धं तस्याहितम्।
ततश्च यथा व्यापारे पञ्चकोटिधनप्राप्तिसम्भवेऽपि मुग्धतादिदोषादेककोटिधनप्राप्तौ सत्यां 'व्यापारिणोऽहितमभवत्' इत्युच्यते, एवमेवात्रापि सुसाधोः यदहितं उच्यते, तत् व्यवहारतोऽपि संयमविराधकसाध्वपेक्षया। एवं दायकस्य यदहितमुच्यते, तत् परिणतदायकसम्बन्धिदीर्घशुभायुष्कफलापेक्षया, न तु वस्तुतोऽहितं तदिति।
एवं अन्येषां मतं प्रतिपादितम्।