SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ कूपदृष्टान्तविशदीकरणं |स्वभाण्डासत्योत्कर्षणादिना आधाकर्म्मादिकरणेन च प्राणातिपातादिषु वर्त्तते, तस्य |वधादिविरतिनिरवद्यदाननिमित्तायुष्का - पेक्षयेयमल्पायुष्कताऽवसेया, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादिविशेषस्य अवश्यं वाच्यत्वात्, अन्यथेतस्तृतीयसूत्रे प्राणातिपातादितः | अशुभदीर्घायुष्कतावचनानुपपत्तेः । न हि सामान्यहेतोः कार्यवैषम्यं युज्यते । अपि च | अल्पतरपापबहुतरनिर्जराहेतुताया अशुद्धदाने अभिधास्यमानत्वाद् नैवेयं क्षुल्लकभवग्रहणरूपा अल्पायुष्कता, न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्तता सम्भाव्यते, जिनपूजाद्यनुष्ठानस्याऽपि तथात्वप्रसङ्गात्' इति व्याख्यानेऽपि विधिवैकल्यवत्येव जिनपूजा ग्राह्येति द्रष्टव्यम्, यन्द्र. : एतेन = 'अविधिरेव हिंसा, विधिरेव चाहिंसा । अविधिरेव च दोष:, तत्सत्त्व एव च स्वल्पादिपापकर्मबन्धः, तदभावे तु बाह्यहिंसासत्त्वेऽपि कुत्रापि कोऽपि दोषो नास्त्येव' इति यत्प्रतिपादितं, तेन । कहन्नं भंते इत्यादि । प्रथमं तावद्भावार्थः प्रतिपाद्यते, तत्पश्चादक्षरार्थः प्रतिपादयिष्यते । स्थानाङ्गसूत्रे तृतीयाध्ययने वक्ष्यमाणरूपाणि चत्वारि सूत्राणि सन्ति । तानि च भावार्थेनात्र दर्शयामि (१) त्रिभिः स्थानैः = कारणैः जीवा अल्पायुष्कं बध्नन्ति - (१) प्राणानतिपात्य (२) मृषा कथयित्वा (३) सुसाधुं अप्रासुकमनेषणीयं वा अंशनादिकं प्रदायेति। (२) त्रिभिः स्थानैः = कारणैः जीवा दीर्घायुष्कं बध्नन्ति - ( १ ) प्राणाननतिपात्य (२) मृषाऽनुक्त्वा (३) सुसाधुं प्रासुकमेषणीयं च अशनादिकं प्रदायेति। (३) त्रिभिः स्थानैः = कारणैः जीवा अशुभदीर्घायुष्कं बध्नन्ति - ( १ ) प्राणानतिपात्य (२) मृषा कथयित्वा (३) सुसाधुं हीलनाखिंसनादिप्रकारेण अमनोज्ञादिरूपं अशनादिकं प्रदायेति । (४) त्रिभिः स्थानैः = कारणैः जीवाः शुभदीर्घायुष्कं बध्नन्ति - (१) प्राणाननतिपात्य (२) मृषाऽनुक्त्वा (३) सुसाधुं सत्कारसन्मानादिप्रकारेण मनोज्ञादिरूपमशनादिकं प्रदायेति। → तत्र प्रथमसूत्रस्याभयदेवसूरिभिर्यद् व्याख्यानं कृतं, तदनुसारेणायं भावार्थः । अल्पायुष्कं द्विविधं, एकं २५६ आवलिकाप्रमाणं, द्वितीयं सापेक्षं, तथाहि - चतुर्थसूत्रे यत् शुभदीर्घायुष्कमुक्तं, तदपेक्षया शुभमेवाल्पायुष्कमिति । यथा चतुर्थसूत्रानुसारेण कश्चिद् गृहस्थ : २२ सागरोपमप्रमाणमायुः बध्नाति, तर्हि तदपेक्षया प्रथमसूत्रानुसारेण २१ सागरोपमादिप्रमाणमायुः बध्नातीति। तत्र यत् २५६ आवलिकाप्रमाणमायुः, तत् स कथं बध्नाति ? इति जिज्ञासायां समाधानमिदं यदुत अध्यवसायविशेषात् स तादृशमायुर्बध्नातीति । कर्मबन्ध अध्यवसाय एव प्रधानं कारणम्, ततश्च यादृशोऽध्यवसायः २५६ आवलिकाप्रमाणायुषः कारणम्, तादृश एवाध्यवसायो यस्मिन्प्राणातिपाते यस्मिन्मृषावादे यस्मिन्वा गोचरीदाने भवेत्, तस्मिन्प्राणातिपातादौ तादृशायुर्बन्धः स्यादिति । परन्त्वस्मिन्समाधाने भवति प्रश्न:, तथाहि - यानि प्राणातिपात - मृषावाद – दोषान्वितगोचरीदानादीनि ३२
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy