________________
कूपदृष्टान्तविशदीकरणं
कारणानि अल्पायुष्ककारणतया प्रोक्तानि तान्येव तृतीयसूत्रे अशुभदीर्घायुष्ककारणतया प्रोक्तानि । न चैतत्सम्भवति। न हि एकमेव कारणं अल्पायुष्कं अशुभदीर्घायुष्कमित्येवं विरोधिस्वरूपं कार्यद्वयं जनयितुमलं, न हि एक एवाग्नि: उष्णतां शीततां चोभयं प्रददाति ।
ततश्च प्रथमसूत्रे यानि प्राणातिपातादीनि, तृतीये च यानि तेषां मध्ये कश्चिद् विशेषोऽवश्यं वाच्यः, येन विभिन्नानि तानि विभिन्नकार्याणां कारणानि वक्तुं शक्यन्त इति ।
तत्र प्रथमसूत्रे प्राणातिपातादित्रयाणां तृतीयसूत्रस्थेभ्यः प्राणातिपातादिभ्यो विशेषोऽयम् ।
एको गृहस्थो जिनेश्वरगुणभक्तिमान् पृथ्वीजलपुष्पाद्यारम्भं कृत्वा जिनेश्वरं पूजयति, द्वितीयो गृहस्थः कुटुम्बाद्यर्थं पृथ्व्यादिजीवान् हिनस्ति । अत्र प्रथमगृहस्थः सामायिकादिनिरवद्यानुष्ठानकर्तृगृहस्थसकाशादल्पं शुभाति । द्वितीयगृहस्थस्तु तृतीयसूत्रानुसारेणाशुभं नरकादिसम्बन्धि दीर्घायुर्बध्नाति ।
इत्थं च प्रथमतृतीयसूत्रयोः प्राणातिपातौ स्पष्टमेव विभिन्नौ सन्तौ विभिन्नफलदायको प्रसिद्धौ । एवं मृषावादेऽपि प्राणातिपातवदेव भेदोऽवगन्तव्यः ।
अधुना अशनादिदानरूपं तृतीयं कारणम् ।
तत्र को गृहस्थः साधुभक्तिमान् आधाकर्मादिकरणेन सुसाधवे अशनादिकं ददाति, द्वितीयस्तु साधुं हीलनखिंसनादिभिः अमनोज्ञादिरूपं अशनादिकं ददाति । अत्र प्रथमगृहस्थो निर्दोषदानदातृसकाशादल्पं शुभायुष्कं बध्नाति, द्वितीयस्तु साधुं प्रति तिरस्कारादिदुष्टभावसद्भावादशुभं नरकसम्बन्धि दीर्घायुष्कं बध्नातीति ।
एवं प्रथमतृतीयसूत्रगतयोः अशनादिदानयोर्मध्येऽपि भेदः प्रतिपादितः ।
ननु अल्पायुष्कं सापेक्षं किमर्थं ग्राह्यम् ? २५६ आवलिकारूपमेव किमर्थं न गृह्यते ? अध्यवसायभेदात् फलभेदो भविष्यतीति चेत्, न । एवं सति पूर्वापरविरोधः स्यात् । तथाहि - भगवतीसूत्रे अशुद्धदानं अल्पतरपापस्य बहुतरनिर्जरायाश्च हेतुरुक्तः । यदि च तदेव अशुद्धदानं २५६ आवलिकाप्रमाणायुष्कस्य कारणं स्यात्, तर्हि स्पष्टमेव परस्परं विरोधः । यस्मात् २५६ आवलिकाप्रमाणमायुष्कं निगोद एव भवति । एवं च स्थानाङ्गानुसारेण अशुद्धदानं निगोदकारणं सिद्ध्येत्, भगवत्यनुसारेण तु तत् अल्पस्यैव पापस्य बहुतरायाश्च निर्जरायाः कारणमिति तत् सद्गतिकारणमेव सिद्धयेत्।
इत्थं च स्थानाङ्गानुसारेण अशुद्धदानं निगोदकारणं, भगवत्यनुसारेण च सद्गतिकारणमिति विरोधः स्पष्टः। तत्परिहाराय स्थानाङ्गोक्तं अल्पायुष्कं न २५६ आवलिकाप्रमाणं ग्राह्यम्, अपि तु शुद्धदानजन्यायुष्कापेक्षयाऽल्पं ग्राह्यम् । तच्च सद्गतावपि भवत्येवेति स्थानाङ्गभगवत्योः उभययोरनुसारेण अशुद्धदानं सद्गतिकारणमेव भवेदिति ।
यदि चाशुद्धदानं २५६ आवलिकाप्रमाणायुष्ककारणमेव मन्येत, तर्हि तेन सहैवोक्तं जिनपूजादिकमपि तथैव मन्तव्यं स्यात्। न चैतदिष्टं, तस्माद् यथोक्तमेव मन्तव्यमिति ।
33