SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ - कूपदृष्टान्तषिशदीकरणं । प्रमादो नामाविधिः । तथा च हिंसानिषेधः अविधिनिषेधरूप एव, न तु जीवव्यपरोपणमात्रनिषेधपर - इति। इदं च समाधानं महावाक्यार्थः। (४) सर्वत्रापि जिनाजैव प्रमाणम् ‘इति वचनं ऐदम्पर्यार्थः। तथा च पदार्थादिविचारणा यदा क्रियते, तदा कुत्रापि हिंसानिषेध अविधिनिषेधरूप एव गृह्यते। इत्थं च 'जिनपूजायां यतनाविशेषेण हिंसा सर्वथाऽपि न भवति' इति हिंसानिषेधः अविधिनिषेधरूप एव, अर्थात् तात्त्विकहिंसानिषेधरूप एव, न तु प्राणव्यपरोपणरूपाया हिंसाया निषेध इति। यदि हि द्रव्यहिंसाया निषेधोऽत्राभिप्रेतः स्यात्, तर्हि सा तु चैत्यगृहलोचकरणादौ अवश्यंभाविनीति कृत्वा जिनपूजादिकं सर्वमकर्त्तव्यं स्यादिति नैतद्युक्तमिति। एतच्च सर्वं सूक्ष्ममीक्षितं उपदेशपदादौ आचार्यश्रीहरिभद्रेणेति। एष भावार्थः। अधुनाऽक्षरार्थः । अपि च = युक्यन्तरप्रतिपादनाय प्रस्तावनाकरणेऽयमपिशब्दः । पदार्थेत्यादि । हिंसासामान्यस्य निषेधस्य = 'प्रमादेन प्राणव्यपरोपणं हिंसा, प्राणव्यपरोपणमात्रं वा हिंसा' इत्येवं विभागमकृत्वैव यदा हिंसाया निषेधो क्रियते, तदा स हिंसासामान्यस्य निषेधो गण्यते। अविधिनिषेधपरताया एवेत्यादि। ___यदा पदार्थादिविचारणा क्रियते, तदा हिंसासामान्यस्य निषेधोऽविधिनिषेधपर एव व्यवस्थितः, ततश्च विधिसम्पूर्णतायां सत्यां अविधि-अभावान्न हिंसादोष इति। अन्यथा = यदि विधिसामग्ग्रेऽपि सति बाह्यवधमात्रतो हिंसा दोषरूपा गण्येत, तर्हि चैत्यगृहलोचकरणादौ = चैत्यगृहे गृहस्थानां, लोचकरणे साधूनां। आदिपदात् गृहस्थानां जिनपूजादौ, साधूनां नद्युत्तरणादौ। तत्सम्भवो = भवदभिमतदोषसम्भवो दुर्निवार इति। तथा च चैत्यगृहलोचकरणादावपि अल्पपापबन्धोऽभिमन्तव्यः स्यात्। ___ अत्र हि पूर्वपक्षश्चैत्यगृहे तु अल्पपापबन्धं मन्यत एव, ततश्च तत्र तस्य नापत्तिः, किन्तु लोचकरणेऽल्पपापबन्धस्तेन न मन्यते, ततश्च तत्र तस्यापत्तिरिति कृत्वा लोचकरणं चैत्यगृहेण सहैव समकक्षयाऽत्र गृहीतं महोपाध्यायैरिति बोध्यम्। ____ यशो.: एतेन "कहन्नं भन्ते जीवा अप्पाउयत्ताए कम्मं पगरेंति ? पाणे अइवइत्ता, मुसं वइत्ता, तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असण-पाण-खाइम-साइमेणं पडिलाभित्ता एवं खलु जीवा अप्पाउयत्ताए कम्मं पगरेन्ति" इत्यत्र “अध्यवसायविशेषादेतत्त्रयं जघन्यायुःफलमिति" || व्याख्याय। 'अन्ये तु यो जीवो जिनसाधुगुणपक्षपातितया तत्पूजार्थं पृथिव्याद्यारम्भेण||
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy