________________
- कूपदृष्टान्तविशदीकरणं
- यन्द्र.: ननु विधिविरह एव कायवध इति यद् उच्यते, तन्निश्चयनयाभिप्रायेण युक्तम्। किन्तु व्यवहारनयाभिप्रायेण तु जीवस्य स्वप्राणैः सह वियोजनं एव कायवधः । एवं च द्विविध: कायवधोऽस्ति। ततश्च अभयदेवसूरिणा "यतनाविशेषेण प्रवर्तमानस्य सर्वथाऽपि कायवधो न भवति" इत्येवं य: कायवधस्य प्रतिषेधः कृतः, स किं निश्चयनयाभिमतस्य कायवधस्य? व्यवहाराभिमतस्य वा? वयन्तु वदामः, यदुत सूरिभिः व्यवहारनयाभिमतस्यैव कायवधस्य निषेधः कृतः। ततश्च अयं तेषामभिप्रायः यदुत यदि यतनाविशेषो न क्रियते, तर्हि जीववधो भवति, ततश्च तज्जन्य अल्पपापबन्धो भवति, एतदेव च चतुर्थपञ्चाशकवृत्तौ उक्तम्। ___ यदि च यतनाविशेषः क्रियते, तर्हि व्यवहाराभिमतोऽपि कायवधो न भवति, ततश्च अल्पोऽपि पापबन्धो न भवति इति।
इत्थं च यत्र व्यवहारतोऽपि जीववधः, तत्र स्वल्पोऽपि पापबन्धोऽवश्यंभावी इति स्पष्ट एव तेषामभिप्रायः इति चेत् न, प्रमादयोगेन इत्यादि। हिंसारुपस्यैव = न तु जीवस्य स्वप्राणैः सह वियोगमात्रस्येति एवकारार्थः, किन्तु प्रमादवशतो यदा जीवस्य स्वप्राणैः सह वियोगः, तदा प्रमादिनस्तात्त्विकी हिंसा गण्यते। तादृशहिंसारूपस्यैव कायवधस्य अत्र = यतनाविशेषेण क्रियमाणे जिनपूजादिके प्रतिषेध्यत्वात् 'सर्वथाऽपि न भवति' इतिवचनेन निषेध्यत्वात्। __ अयं भावः - द्विविधः कायवधोऽस्तीति सत्यम्, परन्तु यतनाविशेषेण क्रियमाणे जिनपूजादिके सूरिणा द्विविधस्यापि कायवधस्य निषेधो न कृतः, किन्तु तत्त्वार्थोक्ततात्त्विकहिंसारूपस्यैव कायवधस्य निषेध उक्तः, यतनासद्भावेन तात्त्विकहिंसात्मककायवधस्याभावात्।
यशो.: जलपुष्पोपनयनादिरूपस्य च पूजाभ्यन्तरीभूतस्य "देहादिनिमित्तं पि हु जे कायवहंमि तह पयट्टन्ति। जिणपूआकायवहमि तेसिमपवत्तणं मोहो" (पू. पञ्चा. ४५)। इत्यादिना उपत्यकरणस्याप्यनुज्ञानात्,
यन्द्र.: ननु भवतु नाम तात्त्विकहिंसात्मकस्य कायवधस्य निषेधः, कस्तत्र विवदति। किन्तु तेनैव सह प्राणवियोगात्मकस्य कायवधस्यापि तत्र निषेधोऽस्त्येव, इति चेत्, न जलपुष्पोपनयनादिरूपस्य च = प्राणवियोगात्मकस्य पूजाभ्यन्तरीभूतस्य = पूजायामवश्यंभाविनः । इत्यादिना = पञ्चचत्वारिंशत्तमगाथाग्रन्थेन उपत्यकरणस्यापि = 'अत्र प्राणवियोगो भवति' इत्येवं ज्ञात्वाऽपि तत्करणस्यापि, आस्तां तावत् एतादृशोपयोगाभाव इत्यपि शब्दार्थः। अनुज्ञानात् = अनुमतिदानात्।
पञ्चचत्वारिंशत्तमगाथाभावार्थस्त्वयम् - ये देहादिनिमित्तमपि कायवधे तथा प्रवर्तन्ते, तेषां जिनपूजाकायवधेऽप्रवर्तनं मोहः = अज्ञानं = मूर्खत्वं = मुग्धतेतियावत्।
अनेन ग्रन्थेन प्रस्तुतकायवधस्यानुमतिरेव प्रदत्ता, ततश्च "सर्वथाऽपि न भवति" इत्यादिना तन्निषेधो नैव मन्तव्यः, न हि यदनुमतं तन्निषेधो युक्त इति।