SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ - कूपदृष्टान्तविशदीकरणं । यशो.: अयं भाव:-पूजापञ्चाशके जिनार्चने कायवधेन प्रतिक्रुष्टेन दुष्टत्वात्कथं परिशुद्धत्वमित्याशङ्कायाम् - "भण्णइ जिणपूयाए, कायवहो जइवि होइ उ कहंचि। तहवि तई | परिसुद्धा, गिहीण कूवाहरणजोगा" ।।४२।। इति श्रीहरिभद्रसूरिभिस्समाहितम्। यन्द्र.: एतदेव सर्वं स्पष्टयितुमाहुर्महोपाध्यायाः - अयं भावः इत्यादि। सर्वं स्पष्टं, नवरं अन्वयार्थो भावार्थश्च प्रतिपाद्यते। ___कायवधो भगवता प्रतिक्रुष्टः, जिनार्चने स भवति, ततश्च जिनार्चनं प्रतिक्रुष्टेन कायवधेन दुष्टं, ततश्च जिनार्चने परिशुद्धत्वं कथं ? इति पूर्वपक्षस्याशङ्का भवति, तस्यां सत्यां श्रीहरिभद्रसूरिभिः पूजापञ्चाशके द्विचत्वारिंशत्तमगाथायां समाधानं कृतम्। सा च गाथेयम् - भण्णइ इत्यादि। तद्भावार्थश्चायं - भण्यते = शङ्कायाः समाधानं दीयते। यद्यपि जिनपूजायां कथञ्चित् कायवधो भवति, तथाऽपि गृहस्थानां कूपदृष्टान्तयोगात्सा जिनपूजा परिशुद्धा" इति। वृत्तिगतपदानामन्वयस्त्वेवम् 'प्रतिक्रुष्टेन कायवधेन (जिनार्चने) दुष्टत्वात्, जिनार्चने परिशुद्धत्वं कथं?' इति (पूजापञ्चाशके) आशङ्कायां (सत्यां) भण्णइ... इति श्रीहरिभद्रसूरिभिः पूजापञ्चाशके समाहितम्। ___ यशो.: तत्र च 'यतनाविशेषेण प्रवर्त्तमानस्य सर्वथापि न भवतीति दर्शनार्थं कथञ्चिद्ग्रहणम्' इत्यभयदेवसूरिभिर्व्याख्यातम्, यन्द्र.: तत्र च = द्विचत्वारिशत्तमगाथायां यत् 'कथञ्चित्' पदं, तद्विवेचने अभयदेवसूरिभिः व्याख्यातं यदुत ‘यतनाविशेषेण प्रवर्तमानस्य सर्वथाऽपि न भवति इति दर्शनार्थं कथञ्चिद् ग्रहणम्' इति। अभयदेवसूरेरनेन वचनेन ज्ञायते यदुत 'यदि यतना स्यात्, तर्हि कायवधो नैव स्यात्' इति। यतना च विधिः, ततश्च विधिसत्त्वे कायवधाभाव एवेति सिद्धम्। ततश्च विधिविरह एव कायवध इत्येतदपि सिद्धम्। यशो. : तेन विधिविरह एव कायवधः पर्यवस्यति, यन्द्र.: एतदेवाहुर्महोपाध्यायाः - तेन = अभयदेवसूरिवचनेन विधिविरह = विधि-अभाव एव, न तु जलपुष्पादिजीवविराधनामात्रं कायवधः पर्यवस्यति। यशो.: "प्रमादयोगेन प्राणव्यपरोपणं हिंसे" ति (७.८) तत्त्वार्थोक्तहिंसालक्षणसद्भावात् हिंसारूपस्यैव कायवधस्यात्र प्रतिषेध्यत्वात्।
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy