________________
-
कूपदृष्टान्तविशदीकरणं -
| यशो. : अप्रवृत्तिनिन्दार्थवादस्य विध्याक्षेपकत्वात्।
यन्द्र.: ननु 'पञ्चचत्वारिंशत्तमगाथाग्रन्थेन पूजाभ्यन्तरीभूतस्य प्राणवियोगात्मकजीववधस्य उपेत्य करणस्याप्यनुमतिः प्रदत्ता' इति कथं सिद्धम्? अस्मिन्ग्रन्थे केवलं देहाद्यर्थं कायवधकारकस्य जिनपूजाद्यर्थं कायवधं पापमिति मत्वा जिनपूजां त्यजतो मोह एव प्रतिपादितः, न तु एवमुक्तं यदुत "जिनपूजाद्यर्थं कायवधे प्रवृत्तिः कार्या" इति शङ्कायामाह -
अप्रवृत्तिनिन्दार्थवादस्य = अप्रवृत्तेर्या निन्दा, सैव अर्थवादः = प्रवृत्तेः प्रशंसारूपः, तस्य विध्याक्षेपकत्वात् = 'प्रवृत्तिः करणीया' इत्येवंविधं यत् विधानं, तदाकर्षकत्वात्।
अयं भावः -
यद्यपि प्रस्तुतगाथायां 'जलपुष्पाद्युपनयनरूपे जिनपूजाकायवधे प्रवृत्तिः करणीया' इति अनुमतिः साक्षात् प्रदत्ता न दृश्यते। परन्तु 'तादृशकायवधेऽप्रवृत्तिः मोहः' इति वचनेन अप्रवृत्तेः निन्दा कृता दृश्यते, अप्रवृत्तेः निन्दा चार्थापत्त्या प्रवृत्तेः प्रशंसैव, प्रशंसा नामार्थवादः, स च अदृश्यमानमपि विधिं जलपुष्पाद्युपनयने प्रवृत्तिः कार्या' इत्येवंरूपं आक्षिपति। ___ यथाहि 'मातापितृसेवाऽकारको पापी' इति वचनेन सेवाऽकारकस्य निन्दा कृता दृश्यते, तेन च सेवाकारकस्य प्रशंसाऽनुमीयते, तेन च अवश्यं मातापितृसेवा करणीया' इत्येवंरूपो विधिः श्रोतृणाऽनुमीयते अनुभूयते वा। एवमेवात्रापि द्रष्टव्यम्।
यशो.: विधिस्पष्टे च निषेधानवकाशात् ।
यन्द्र.: ननु भवतु नाम पुष्पोपनयनादौ विधानं, तथाऽपि तत्र निषेधोऽपि भवतु इति चेत् न, विधिस्पष्टे च = विधानेन स्पष्टं यत् पुष्पोपनयनादिकं, तस्मिन् निषेधानवकाशात् = 'पुष्पानयनादि न कर्त्तव्यम्' इत्यादिरूपस्य निषेधस्यासम्भवात्।
एवं तावत् सुरेरयमाशयः साधितः, यदुत → विधिरहितं भक्तियुक्तं च पूजादिकं इषद्दोषदुष्टं। विधिभक्तिसहितं तु पूजादिकं सर्वथा निर्दोषमेव, यतः यतनाविशेषेण प्रवर्तमानस्य सर्वथाऽपि कायवधो नास्ति, तदभावे च लेशतोऽपि दोषो नास्ति, तदभावे च सर्वथा निर्दोषमेव, तत्र जायमाना जलपुष्पादिविराधना तु न दोषरूपा, प्रमादाभावेन तस्या हिंसारूपत्वाभावात् -इति।
यशो.: यदि च विधिसामग्रेऽपि पुष्पजलोपहारादिरूपहिंसादोषोऽत्र परिगण्येत, तदा तस्य पूजानान्तरीयकत्वेन 'कायवहो जइवि होइ उ कहंचि' त्ति नावक्ष्यदाचार्यः, किन्तु 'कायवहो होइ जइवि नियमेण' मित्येवाऽवक्ष्यत्।