SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ - - कूपदृष्टान्तविशदीकरणं - द्विविधो हि द्रव्यस्तवः, विधिभक्तियुक्तः, अविधिभक्तियुक्तश्च। उभयत्र पुष्पाद्यारम्भोऽस्त्येव, परन्तु विधिभक्तियुक्ते स्वल्पोऽपि पापबन्धो न भवति, अविधिभक्तियुक्ते तु अविधिबलात् स्वल्पः पापबन्धः, भक्तिमाहात्म्याच्च अधिकतरा निर्जरा पुण्यकर्मबन्धश्चेति। अभयदेवसूरिभि: कूपदृष्टान्तोऽ विधिभक्तियुक्ते द्रव्यस्तवे योजितः, न तु विधिभक्तियुक्ते द्रव्यस्तवे। तथा च तेषां त्विदमेवाभिमतं यदुत - (१) 'स्नानपूजादिकं गुणकरं स्वपरोपकारहेतुत्वात्, कूपखननवत्' इत्येवंरूपमनुमानं विधिभक्तियुक्ते स्नानपूजादिके द्रव्यस्तवे योजनीयम्। (२) अधिकारिणः किञ्चित्सदोषमपि स्नानपूजादिकं गुणकरं शुभाध्यवसायजननेन स्वपरोपकारहेतुत्वात् कूपखननवत्' इत्येवंरूपमनुमानं अविधिभक्तियुक्ते स्नानपूजादिके द्रव्यस्तवे योजनीयम्। यस्मात् तत्रैवाविधिबलात् किञ्चित्सदोषत्वमिति। (३) इत्थं च प्रथमानुमाने 'यथा कूपखननं स्वपरोपकारहेतुत्वात् गुणकरं, तथैवं विधिभक्तियुक्तं स्नानपूजादिकं स्वपरोपकारहेतुत्वात् गुणकरं' इत्येवं योजनीयम्। (४) द्वितीयानुमाने तु 'यथा कूपखननं श्रमतृष्णाकर्दमोपलेपादिदोषदुष्टमपि जलोत्पत्तौ अनन्तरोक्तदोषान् अपोह्य स्वपरोपकारहेतुः, अत एव च गुणकरं, तथैव अविधिभक्तियुक्तं स्नानपूजादिकं अविधिजन्यं पापकर्मबन्धं शुभाध्यवसायेन अपोह्य शुभाध्यवसायेनैव विशिष्टाशुभकर्मनिर्जरापुण्यबन्धद्वारा गुणकरमिति। एतदेव अभयदेवसूरेः तात्पर्यम्। पूर्वपक्षेण तु → विधिभक्तियुक्तेऽविधिभक्तियुक्ते च उभयस्मिन्नपि द्रव्यस्तवे प्रथमं आरम्भजन्यः पापबन्धः पश्चाच्च शुभाध्यवसायेन पापक्षयपुण्यबन्धश्च भवति - इत्येवं अभयदेवसूरेः तात्पर्यं गृहीतम्। अत एव पूर्वपक्षस्य महोपाध्यायानां च विरोधः, ततश्च अभयदेवसूरेः य उभयस्मिन्स्थाने तात्पर्यभेदः, तं महोपाध्याया आविष्कुर्वन्ति। एतत्सर्वमधुना मनसि स्पष्टं दृढीकर्तव्यम्। यशो.: ईसिं दुट्ठत्ते जं, एयस्स नवंगिवित्तिकारेणं । ___ संजोयणं कयं तं, विहिविरहे भत्तिमहिकिच ॥३॥ यन्द्र.: तृतीयगाथायाः संस्कृतछाया अन्वयश्च एवं नवाङ्गीवृत्तिकारेण एतस्य = कूपदृष्टान्तस्य इषदुष्टत्वे यत्संयोजनं कृतं, तत् विधिविरहे भक्तिमधिकृत्य (कृतं) ॥३॥
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy