SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ - कूपदृष्टान्तविशदीकरणं । यदि तु केषाञ्चिन्मतानुसारेण शुभभावसत्त्वे आरम्भसत्त्वेऽपि पापबन्धो न भवेदेव, तर्हि ग्लानसेवकस्य पापबन्धो न स्यादेव, ग्लानसेवाकरणलक्षणस्य शुभभावस्य सततं सद्भावात्। ततश्च पापबन्धाभावादेव तस्य पापनाशाय प्रायश्चित्तप्रदानं निरर्थकं स्यात्। एवं च तस्य प्रायश्चित्तदानं विघटेत। किन्तु शास्त्रे व्यवहारे च तस्य प्रायश्चितं प्रदीयमानं दृश्यत एवेति केषाञ्चिन्मतं आगमविरोधि इति स्पष्टम्। इत्थं च यदि केषाञ्चिन्मत्तं सत्यम्,तर्हि भगवतीसूत्रं ग्लानसेवकस्य प्रायश्चित्तदानं च असत्यम्। यदि च तव्यं सत्यम्, तर्हि केषाञ्चिन्मतं मिथ्या इति सारः इत्यलं प्रसङ्गेन । अत्र पञ्चाशकवृत्तिपाठः समाप्तः। अयं च पाठो महोपाध्यायं प्रति पूर्वपक्षण प्रदर्शितः। यतो महोपाध्यायप्रतिपादनं केषाञ्चिन्मतानुसारि अस्ति, अभयदेवसूरिवचनं तु केषाञ्चिन्मतविरोधि अस्ति। ततश्च 'किं महोपाध्याया अभयदेवसूरिवचनं न मन्यन्ते?' इति आशङ्का भवेदेव।सैवाशङ्का पूर्वपक्षेण 'नन्वियं योजनाऽभयदेवसूरिणैव' इत्यादिना प्रकटीकृता। यशो.: तदेतन्निह्ववतां कूपदृष्टान्तविशदीकरणं काकपक्षविशदीकरणवदुपहासपात्रतामभिव्यनक्ति, स्वसम्मताभियुक्तवचनविरुद्धत्वादित्याशङ्कायां नाभियुक्तवचनविरोधो बोधोन्मुखानामवभासते, तस्य भिन्नतात्पर्यकत्वादित्याशयवानाह - यन्द्र.: एवं पञ्चाशकपाठं प्रदर्श्य पूर्वपक्षो महोपाध्याययशोविजयिनं दूषयति - तदेतद् इत्यादि। तत् = पञ्चाशके प्रसिद्धं एतत् = अनन्तरमेव निगदितं तत्त्वं निढवतां = अप्रकटीकुर्वतां भवतां कूपदृष्टान्तविशदीकरणं प्रतिज्ञातं काकपक्षविशदीकरणवद् उपहासपात्रता = हास्यास्पदतां अभिव्यनक्ति = प्रकटीकरोति। काकपक्षौ काकेनैव विशदीकृते, न तत्रास्माभिः किञ्चित्कर्त्तव्यमस्ति, तथाऽपि यदि कश्चित्करोति, तर्हि स हास्यास्पदमेव भवति। ____ एवं कूपोदाहरणं अभयदेवसूरिणा विशदीकृतमेव, भवद्विशदीकरणं तु तद्विरोधि, तथाऽपि यदि करोति भवान्, तर्हि भवतां इदं विशदीकरणं भवतामेव हास्यास्पदतां सूचयति। ननु कूपदृष्टान्तविशदीकरणं कस्मादस्माकं उपहासपात्रतां प्रकटयति? इति जिज्ञासायां आह - स्वसम्मतेत्यादि। महोपाध्यायस्य सम्मता ये अभियुक्ताः = पूज्याः अभयदेवसूरयः, तस्य यद् वचनं = अनन्तरमेव प्रतिपादितं, तद्विरोधित्वात्। ___महोपाध्याया आशङ्कां निवारयितुमारभन्ते - नाभियुक्तवचनविरोधो = नाभयदेवसूरिप्रतिपादितपदार्थेन सह विरोधोऽस्मत्कथितपदार्थस्य बोधोन्मुखानां = सम्यग्बोधं प्रति अभिमुखानां अवभासते। ननु कथं नावभासते? अस्माभिर्दर्शित एव विरोध इति चेन्न तस्य = अभियुक्तवचनस्य भिन्नतात्पर्यकत्वात् = भवदभिमततात्पर्यात्सकाशाद् भिन्नं यत्तात्पर्यं, तद्वत्त्वात्।
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy