SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ - कूपदृष्टान्तविशदीकरणं - अन्यथा = यदि हि धर्मार्थप्रवृत्तावपि आरम्भजनितोऽल्पः पापबन्ध इष्टो न स्यात्, किन्तु केषाञ्चिन्मतानुसारेण सर्वथा पापबन्धाभाव एवेष्ट: स्यात्, तर्हि - तहारूवं समणं वा माहणं वा पडिहयपच्चक्खायपावकम्मं = तथास्वरूपं श्रमणं = तपस्विनं माहनं = ‘मा हन कमपि जीवं' इतिवदनस्वभावं प्रतिहतप्रत्याख्यातपापकर्माणं = निन्दागर्हादिद्वारेण प्रारबद्धानि प्रतिहतानि, अकरणनियमद्वारेण च अनागतानि प्रत्याख्यातानि पापकर्माणि येन स, तम्, सुसाधुमित्यर्थः। अफासुएणं = सचित्तेन। अणेसणिज्जेणं = आधाकर्मादिदोषयुक्तेन। असणेत्यादि स्पष्टम्। पडिलाभेमाणे = प्रतिलम्भयतः। किं कज्जइ = किं भवति? अयं प्रश्नार्थः → सुसाधु सचित्तं आधाकर्मादिदोषयुक्तं वा ददानो गृहस्थः किं फलं प्राप्नोति - इति गोयमेत्यादि गौतम! अल्प: पापकर्मबन्धो भवति, अधिकतरा च तस्य निर्जरा भवति इति। अत्र सुसाधवे अप्रासुकमनेषणीयं वा ददानस्य शुभभावस्तु विद्यत एव, तथाऽपि अप्रासुकादिदाने आरम्भदोषो भवत्येवेति शुभभावसत्त्वेऽपि आरम्भजन्यः स्वल्प: पापबन्धो भगवत्यां प्रतिपादित इति स्पष्टं दृश्यते। ___ एवमेव पूजार्थस्नानादिकं कर्तुः शुभभावस्तु विद्यत एव, तथाऽपि जलादिजीवारम्भदोषो भवत्येवेति शुभभावसत्त्वेऽपि आरम्भजन्यः स्वल्पः पापबन्धो भगवतीशास्त्राभिमत एवेति स्पष्टम्। केषाञ्चिन्मतं तु तत्र आरम्भसत्त्वेऽपि शुभभावसत्तामात्रेण तत्र सर्वथा पापबन्धाभावप्ररूपकमिति तत् शास्त्रविरोधि। यशो.: तथा ग्लानप्रतिचरणानन्तरं पञ्चकल्याणकप्रायश्चित्तप्रतिपत्तिरपि कथं स्यात् ? इत्यलं प्रसङ्गेनेति गाथार्थ इति'। यन्द्र.: अभयदेवसूरय एव केषाञ्चिन्मतं दूषयितुं युक्त्यन्तरमाह - तथा ग्लानप्रतिचरणेत्यादि। ग्लानप्रतिचरणानन्तरं = ग्लानसेवां संपूर्णां कृत्वा पञ्चकल्याणकप्रायश्चित्तप्रतिपत्तिरपि = गीतार्थगम्यस्य पञ्चकल्याणकाभिधानकस्य प्रायश्चित्तस्य स्वीकारोऽपि कथं स्यात् = घटेत? अन्यथा पदस्यार्थोऽत्रापि योज्यः। ततश्च यदि शुभभावसत्त्वे आरम्भसत्त्वेऽपि सर्वथा पापकर्मबन्धाभाव एव स्यात्, तर्हि ग्लानसेवाऽनन्तरं ग्लानसेवको यां प्रायश्चित्तप्रतिपत्तिं करोति, सा कथं घटेत? नैव घटेतेति भावः। ___ ग्लानसेवको हि शुभभावपूर्वकमेव ग्लानसेवां करोति, तत्र च अनेषणीयादिदोषानपि सेवते, ततश्च शुभभावसत्त्वेऽपि आरम्भदोषजन्य: पापबन्धोऽस्तीति तत्क्षयार्थं तस्य प्रायश्चित्तं दीयते।
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy