SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ - कूपदृष्टान्तविशदीकरणं - तस्मात् यथाऽभयदेवसूरिणा कूपदृष्टान्तो योजितः, तथा न योज्यः। ननु तर्हि स दृष्टान्तः कथं योजनीयः, शास्त्रोक्त इति कृत्वा तद्योजनं तु आवश्यकमेवेति चेत् सत्यम्। ततः किलेदमित्यं योजनीयम् इत्यादि स्पष्टम्। अत्र केषाञ्चिन्मतं समाप्तम्। नवरं सुखावबोधाय वृत्तिगतवाक्यानां भावार्थः प्रतिपाद्यते। आस्तां चैत्यवन्दनकाले, पूजार्थस्नानादिकालेऽपि निर्मलजलकल्प: शुभाध्यवसायो विद्यमान एव, ततश्च तत्र कर्दमलेपादिकल्पस्य पापस्याभावो भवति, ततश्च इदं = कूपखननं उदाहरणं विषमम् = सम्यगुपमौपमेयभावरहितम्। कूपखननकाले जलाभावात् कर्दमलेपादि सम्भवि, परन्तु कूपखननसदृशस्नानादिकाले जलकल्पस्य शुभभावस्याभावो नास्ति, ततश्च तत्र कर्दमलेपादिसदृशपापकर्मबन्धो नास्त्येवेति। तत इदमुदाहरणं विषममिति। ततश्च प्रथमं दोषाः, पश्चात् दोषनिवारणमधिकलाभश्चेत्येवं न, किन्तु केवलं एतावदेव यदुत यथा कूपखननं स्वपरोपकाराय भवति, एवं स्नानपूजादिकं करणद्वारेण स्वस्य अनुमोदनद्वारेण च परस्योपकाराय भवतीति। यशो.: न चैतदागमानुपाति, यतो धर्मार्थप्रवृत्तावप्यारम्भजनितस्याल्पस्य पापस्येष्टवात्, यन्द्र.: अधुनाऽभयदेवसूरयः केषाञ्चिन्मतं पञ्चाशकवृत्तौ दूषयन्ति - न चैतदागमानुपाति। एतद् = केषाञ्चिन्मतं आगमानुपाति = आगमानुसारि, अपि तु आगमविरोधि इति भावः। ननु किमर्थं एतद् आगमविरोधि? इत्यत आह - यतः = यस्मात् कारणात् धर्मार्थप्रवृत्तावपि = आस्तां तावत्कुटुम्बाद्यर्थं हिंसादिप्रवृत्तौ, किन्तु धर्मार्थं या हिंसादिप्रवृत्तिः, तत्रापि आरम्भजनितस्य = हिंसादिजनितस्य अल्पस्य = निर्जरापुण्यबन्धाऽपेक्षया हीनस्य पापस्य = पापकर्मबन्धस्य इष्टत्वात् = शास्त्रोक्तत्वात्। शास्त्रे निगदितं यदुत "धर्मार्थं या प्रवृत्तिः क्रियते, तत्रापि हिंसादिजन्योऽल्पः पापबन्धस्तु भवत्येव, न तु सर्वथा पापकर्मबन्धाभावः" इति। केषाञ्चिन्मतं तु धर्मार्थं हिंसादिप्रवृत्तौ शुभभावसत्त्वे स्वल्पमपि पापकर्मबन्धं न मन्यत इति तेषां मतं शास्त्रविरोधि। यशो.: कथमन्यथा भगवत्यामुक्तं 'तहारूवं समणं वा माहणं वा पडिहयपच्चक्खायपावकम्म अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे भंते! किं कज्जइ? गोयमा! अप्पे पावे कम्मे बहुतरया से णिज्जरा कज्जइ'। चन्द्र.: ननु अभयदेवसूरयः! शास्त्रे'धर्मार्थप्रवृत्तावपि स्वल्प: पापबन्ध इष्टः' इति भवता यदुच्यते, तत्केन शास्त्रेणोच्यते? न कस्मिन्नपि शास्त्रे एतदुक्तं अस्ति। ततश्च केषाञ्चिन्मत युक्तमेवेत्यत आहकथमन्यथा इत्यादि।
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy