________________
- कूपदृष्टान्तविशदीकरणं । शुभभावहेतुत्वात् इति हेतुनिर्देशः, हेतुस्तु शुभभावहेतुत्वम्। कूपखननवत् इति दृष्टान्तनिर्देशः, दृष्टान्तस्तु कूपखननम्।
ननु कूपखननं शुभभावहेतुः कथं भवति? न हि तत्र कोऽपि शुभो भावोऽनुभूयत इति चेत् न, कूपखननपक्षे इत्यादि। तथा च तृष्णापगमेन तृप्तिप्राप्तिरेव तत्र शुभभाव इति।
यशो.: इदमुक्तं भवति-यथा कूपखननं श्रमतृष्णाकर्दमोपलेपादिदोषदुष्टमपि जलोत्पत्तावनन्तरोक्तदोषानपोह्य स्वोपकाराय परोपकाराय च भवत्येवं स्नानादिकमप्यारम्भदोषमपोह्य शुभाध्यवसायोत्पादनेन विशिष्टाशुभकर्मनिर्जरणपुण्यबन्धकारणं भवतीति। यन्द्र.: निष्कर्षमाह - इदमुक्तं भवति इत्यादि।
इत्थं च कूपखननं सर्वथा निर्दोषं नास्त्येव, किन्तु किञ्चिद्दोषदुष्टमपि तत् अधिकलाभकारि इति कृत्वोपादेयम्। एवमेव जिनपूजादिकमपि सर्वथा निर्दोषं नास्त्येव, किन्तु किञ्चिदारम्भादिदोषदुष्टमपि तत् अधिकलाभकारि इति कृत्वा उपादेयमिति भावः। ___ यशो.: इह केचिन्मन्यन्ते पूजार्थस्नानादिकरणकालेऽपि निर्मलजलकल्पशुभाध्यवसायस्य विद्यमानत्वेन कर्दमलेपादिकल्पपापाभावाद्विषममिदमुदाहरणम्, ततः किलेदमित्यं योजनीयं, यथा कूपखननं स्वपरोपकाराय भवत्येवं स्नानपूजादिकं करणानुमोदनद्वारेण स्वपरयोः पुण्यकारणं स्यादिति।
यन्द्र.: एवं तावदभयदेवसूरिणा पञ्चाशकवृत्तौ स्वाभिप्रायः प्रदर्शितः। अधुना केषाञ्चिन्मतं दूषयितुं प्रथमं तन्मतं प्रदर्शयति - इह केचिन्मन्यन्ते इत्यादि। __ अयं अभिप्रायः, कूपखननकाले श्रमस्तृष्णाकर्दमोपलेपश्चेत्येवमादयो दोषा भवन्ति, एवमेव जिनपूजार्थस्नानादिकाले जलपुष्पादिविराधनादयो दोषा भवन्ति। किन्तु कूपखननानन्तरं यदा जलोत्पत्तिर्भवति, तदा श्रमादयो दोषास्तेन जलेनैवापनीयते। एवं जिनपूजार्थस्नानाद्यनन्तरं चैत्यवन्दनकाले शुभभावोत्पत्तिर्भवति यदा, तदा जलपुष्पादिविराधनाजन्यपापकर्मणः क्षयः पुण्यबन्धश्च भवतीत्येवं जिनपूजार्थस्नानादिकं कूपखननं इव उपादेयमिति अभयदेवसूरिभिः कूपदृष्टान्तो योज्यते। परन्तु स न घटते।
किमर्थं न घटते? इति चेत्, इत्थं न घटते,
कूपखननकाले जलं नास्ति, तदनन्तरं जलमस्ति। ततश्च तत्र कूपखननकाले श्रमादयो दोषा अवश्यंभाविनः। परन्तु जिनपूजार्थस्नानादिकाले तु जलसदृशः शुभभावो विद्यत एव। न हि एतद् वक्तुं शक्यते यदुत → श्रावक: स्नानकाले जलपुष्पादिपूजाकाले च शुभभावरहितः, तदनन्तरमेव च शुभभावसहित: - इति। किन्तु जिनपूजार्थस्नानकाले जलपुष्पादिपूजाकाले तदनन्तरं चैत्यवन्दनकाले च सर्वत्र श्रावकस्य शुभभावो विद्यते, ततः कथं पापकर्मबन्धादयो दोषा भवेयुः?