SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ कूपदृष्टान्तविशदीकरणं यशो. : ईषद्दुष्टत्वे = अल्पपापबहुनिर्जराकारणत्वे, यद् एतस्य कूपदृष्टान्तस्य, नवाङ्गीवृत्तिकारेण श्री अभयदेवसूरिणा पञ्चाशकाष्टकवृत्त्यादौ (संयोजनं कृतं), तद्विधिविरहे = यतनादिवैकल्ये भक्तिमात्रमधिकृत्य । विधिभक्त्यादिसाकल्ये तु स्वल्पमपि पापं वक्तुमशक्यमेवेति भावः ॥३॥ I चन्द्र. : अधुना तृतीयगाथाया वृत्तिः, सा च प्रायः स्पष्टा । नवरमयमभिप्रायः यथा श्रावको निष्कारणं मुग्धतामाश्रित्य भक्तिभावेन प्रेरितः सन् सुसाधवेऽनेषणीयादिकं अशनादि ददाति, तत्र च अनेषणीयस्यापि निष्कारणं दानमविधिः, ततश्च तत्र स्वल्पः पापबन्धः, सुसाधुतां प्रति भक्तिभावश्च विशिष्टनिर्जराकारणं विशिष्टपुण्यबन्धकारणं चेति तद् दानं अल्पपापबहुनिर्जराकारणं भगवत्यादौ उक्तम्। एवं श्रावकः प्रमादादिदोषवशतो जलगालनाल्पजलोपयोगादिरूपां यतनां न करोति, अल्पां वा करोति, जिनेश्वरं प्रति भक्तिभावश्च तस्यास्त्येव, तत्र अयतनैव अविधि:, तेन चाल्पपापबन्धः ।, भक्त्या तु विशिष्टपापनिर्जरादिकमिति अविधिभक्तियुक्तं स्नानपूजादिकं अल्पपापबहुनिर्जराकारणं अवसेयमिति । महोपाध्यायाः स्वाभिप्रायं दृढीकुर्वन्ति - विधिभक्त्यादिसाकल्ये तु = यदि स्नानादौ संपूर्णो विधिः पाल्यते, भक्तिश्चास्ति, आदिपदात् प्रतिसमयं विशिष्टोपयोगश्चास्ति, तर्हि जलपुष्पादिजीवविराधनायां सत्यामपि स्वल्पमपि पापं वक्तुं अशक्यमेव । यशो. : कथमयमाशयः सूरेर्ज्ञात इति चेत् ?, तत्राह - इहरा कहंचि वयणं, कायवहे कह णु होज्ज पूयाए । न य तारिसो तवस्सी, जंपइ पुव्वावरविरुद्धं ॥४॥ - यन्द्रः पूर्वपक्ष: प्राह- कथमयं = अनन्तरोदितः आशय: सूरेर्ज्ञातः भवता ? यस्मात् पञ्चाशकवृत्त्यादौ सूरेः तथाविधाशयः प्रतिपादितो न दृश्यते । तत्र तु अल्पपापबहुनिर्जराकारणत्वमेव द्रव्यस्तवस्य प्रतिपादितं दृश्यते। न तु विधिभक्तियुक्तस्य सर्वथा निर्जराकारणत्वं अविधिभक्तियुक्तस्य तु अल्पपापबहुनिर्जराकारणत्वमिति । तत्र = एतादृशशङ्कायां सत्यां आह । चतुर्थगाथायाः संस्कृतछाया अन्वयश्च इत्थं गाथा ४ : इतरथा पूजायां कायवधे कथंचित् वचनं कथं नु भवेत्, न च तादृशस्तपस्वी पूर्वापरविरुद्धं जल्पति इति । ॥४॥ ૨૫
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy