________________
कूपदृष्टान्तविशदीकरणं
द्रव्यस्तवे खलु एष कूपदृष्टान्तो युक्त' इति । अस्या विस्तरार्थस्तु अग्रे प्रतिपादयिष्यते । अत्रापि प्रश्नो भवति कूपोऽत्र दृष्टान्तः, जिनपूजादिकं च शोभनं स्वरूपतः सावद्यानुष्ठानं दान्तिकं, ततश्चानयोर्मध्ये कीदृशेन प्रकारेणोपमौपमेयभाव ← इति ।
अत्र केचिदुत्तरं प्रतिपादयन्ति यथा कूपखनने प्रथमं श्रमः कर्दमः तृष्णावृद्धि इत्येवमादयोऽपाया भवन्ति, किन्तु कूपखननानन्तरं यदा जलं निर्गच्छति, तदा तेन जलेनैव स्नानपानादिक्रियाबलेन श्रमकर्दमतृष्णानिवारणं भवति, कृष्यादिना प्रभूततरो लाभश्च भवति ।
एवमेव जिनपूजादिकेऽनुष्ठाने जलादिहिंसासद्भावात् प्रथमं पापकर्मबन्धो भवति, किन्तु तदनन्तरं शुभभावबलात् बद्धपापकर्मणां क्षयो भवति, पुण्यानुबन्धिपुण्योपार्जनं च भवति ← इति।
महोपाध्यायास्तु 'इदमुत्तरं असम्यक्' इति प्रतिपादयन्ति, यतः केवलं बाह्यहिंसा न कर्मबन्धकारिणी' इति हि तेषां शास्त्रानुसारी स्पष्टोऽभिप्रायः । तथा च ते कूपदृष्टान्तं इत्थं घटयन्ति यदुत यथा कूपखनने जललाभात् महान् लाभ:, तथैव जिनपूजादिकेऽनुष्ठाने पापनिर्जरापुण्यानुबन्धिपुण्यबन्धलाभात् महान् लाभ एव। अपायस्तु न कश्चित् ।
यद्यपि कूपखनने दोषाः श्रमादिकाः सन्ति, किन्तु अत्र ते न गणनीयाः, न हि उपमौपमेयभावे अयं नियमो यदुत 'यद् उपमायां भवति, तत्सर्वं उपमेयेऽपि अवश्यं गणनीयमेव' इति । अन्यथा शक्रस्तवे जिनेश्वरस्य सिंहपुण्डरीकहस्तिप्रभृतय उपमाः प्रदर्शिताः, ततश्च सिंहादिसत्कास्तिर्यक्त्वमांसभक्षकत्वचतुष्पादत्वादयो धर्मा अपि जिनेश्वरे गणनीया भवेयुः ।
तस्मात् उपमागता यथोचिता धर्मा एव उपमेये गणनीया इतिकृत्वा कूपखनने प्रभूतलाभात्मको यो धर्म:, स एव जिनपूजादिके उपमेये गणनीयः, न तु श्रमादिका इति ।
यदा तु जिनपूजादिकेऽनुष्ठाने अयतना भवति, तदा कूपदृष्टान्तघटना इत्थं करणीया यदुत → कूपखनने प्रथमं अपायाः, पश्चाच्च प्रभूता लाभा इति तत्कर्त्तव्यम्, एवं जिनपूजादिकेऽनुष्ठाने अयतना समन्विते प्रथमं कर्मबन्धादयोऽपायाः, पश्चात्तु शुभभावादिबलात् प्रभूता लाभा इति तत्कर्त्तव्यम् ← इति।
एवं तावन्महोपाध्यायानामभिप्रायः सङ्क्षेपतः प्रतिपादितः । अस्मिन्नभिप्राये प्रभूतं रहस्यमस्ति तत्तु अग्रे ग्रन्थानुसारेणैव प्रतिपादयिष्यते, केवलं 'अध्येतृणां व्यामोहो मा भूत्' इत्येतदर्थं प्रथमं प्रस्तावनारूपे अतिसङ्क्षेपतोऽयं पूर्वपक्षोत्तरपक्षरूपः पदार्थः प्रतिपादित इति ।
अधुना कूपदृष्टान्तविशदीकरणग्रन्थस्यावसरः। अस्मिन्ग्रन्थे त्रयोदश मूलगाथाः सन्ति ।
मूलग्रन्थस्य तद्वृत्तेश्च रचयितारो महोपाध्याया यशोविजयिनः ।
૧૦