________________
- - कूपदृष्टान्तविशदीकरणं - मया तु तद्वयोरुपरि अनन्तोपकारियुगप्रधानाचार्यसमपंन्यासप्रवरश्रीचन्द्रशेखरविजयगुरुदेवाभिधानानुसारेण चन्द्रशेखरीया वृत्तिः क्रियते।
तत्र प्रथमं तावत् टीकामङ्गलश्लोक :- ऐन्द्रश्री इत्यादि। अन्वयार्थस्त्वयम् - → ऐन्द्रश्री: यत्पदाब्जे राजहंसीव सततं विलुठति, यस्य ध्यानं मुक्तेर्निदानं, यतः सर्वविद्याविनोदः प्रभवति, त्रिभुवनभवनाभोगसौभाग्यलीलाविस्फुर्जत्केवलश्रीपरिचयरसिकं श्रीमन्तं तं वर्धमानं जिनेन्द्रं भजामः ।। भावार्थस्त्वयम् -
अत्र सर्वत्र यत्सर्वनामपदेन वर्धमानजिनेन्द्रो ग्राह्यः, ततश्चायमर्थः -इन्द्रसम्बन्धिनी लक्ष्मी: यस्य वर्धमानस्य पदकमले राजहंसी इव विलुंठति। यस्य वर्धमानजिनेन्द्रस्य ध्यानं मोक्षस्य कारणम्। यस्मात् वर्धमानजिनेन्द्रात् सर्वासां विद्यानां विनोदः प्रादुर्भवति, त्रिभुवनरूपे भवने आभोगरूपा या सौभाग्यलीला, तया विस्फुर्जन्ती या केवलश्रीः, तस्याः परिचये रसिकं अष्टप्रातिहार्यादिशोभायुतं तं वर्धमानं जिनेन्द्र भजाम इति।
अत्र विशेषार्थः -
यदा मुकुटसहिता इन्द्राः प्रभोः पदकमले नमन्ति, तदा मुकुटाग्राणि प्रभोः पदयुगले लगन्ति। इन्द्रमुकुटाग्राणि एव इन्द्रसम्बन्धिनी श्रीः, ततश्च यथा राजहंसी कमले विलुठति, तथैव एन्द्र श्रीः सततं प्रभोः पदकमले विलुठतीति।
तथा यथा भवने सर्वे पदार्था भवन्ति, तथैव त्रिभुवनेऽपि सर्वे पदार्था भवन्ति, ततश्च त्रिभुवनं भवनरूपमेव। यथा च मनुष्यः स्वभवने आभोगं कर्तुं समर्थः, तथैव भगवान् केवलज्ञानेन त्रिभुवनरूपे भवने आभोगं कर्तुं समर्थः । इत्थं भगवतः समीपे या केवलज्ञानरूपा श्रीरस्ति, तस्या इयमेव सौभाग्यलीला यदुत सा त्रिभुवनभवनाभोगवती। यथा संसारिणी स्त्री सौभाग्यवत्येव श्रेष्ठा, न तु विधवा। तथैव केवलश्री: त्रिभुवनभवनाभोगात्मिकया सौभाग्यलीलयैव श्रेष्ठा, न तु अन्यथा। ___ इत्थं च सा केवलश्रीः तादृशसौभाग्यलीलया विस्फुर्जन्ती = देदिप्यमानाऽस्ति, तादृश्या श्रेष्ठायाः केवलश्रियः परिचये रसिकः प्रभुः। एतादृशं वर्धमानं जिनेन्द्रं भजामः ।
यशो. सिद्धान्तसुधास्वादी परिचितचिन्तामणिनयोल्लासी ।
तत्त्वविवेकं कुरुते न्यायाचार्यो यशोविजयः ॥२॥ यन्द्र.: अधुना द्वितीया टीकागाथा- सिद्धान्त इत्यादि। स्पष्टा । नवरं परिचितः चिन्तामणिः