________________
कूपदृष्टान्तविशदीकरणं
नमोऽस्तु तस्मै जिनशासनाय
महोपाध्याययशोविजयविरचितं
कूपदृष्टान्तविशदीकरणं
तदुपरि च चन्द्रशेखरीया वृत्तिः ।
यशोविभ्य : ऐन्द्रश्रीर्यत्पदाब्जे विलुठति सततं राजहंसीव यस्य, ध्यानं मुक्तेर्निदानं प्रभवति च यतः सर्वविद्याविनोदः । श्रीमन्तं वर्धमानं त्रिभुवनभवनाभोगसौभाग्यलीलाविस्फूर्जत्केवलश्रीपरिचयरसिकं तं जिनेन्द्रं भजामः ॥ १ ॥
चन्द्रशेजरीया : श्रीमते वीरनाथाय, सनाथायाद्भूतश्रिया । महानन्दसरोराजमरालायार्हते नमः ॥
वीतरागसर्वज्ञो भगवान् द्विविधं धर्ममुपदिशति - साधुधर्मं श्रावकधर्मञ्च । तत्र श्रावकाः संसारे पृथ्व्यादिहिंसापरायणाः, ततश्च' कण्टकः कण्टकं निष्काशयति' इति न्यायात् तेषां पृथ्व्यादिहिंसादोषनिवारणार्थं स्वरूपतः सावद्यमपि साधुधर्मप्रापकम्, अत एव परम्परया निरवद्यं जिनपूजादिकं श्रावकधर्मं अनुजानाति भगवान्।
तत्र च भवतीयमाशङ्का यदुत 'यथा गृहनिर्माणाद्यर्थं पृथ्व्यादिहिंसां कुर्वतां गृहस्थानां पापकर्मबन्धो भवति, तथा जिनपूजार्थं सचित्तजलपुष्पादिविराधनां कुर्वतां गृहस्थानां पापकर्मबन्धो भवति न वा ?' इति ।
एतदाशङ्कानिवारणार्थं चतुर्दशपूर्वधरा भद्रबाहुस्वामिन आवश्यकनिर्युक्तौ कूपदृष्टान्तं प्रतिपादितवन्तः, तत्प्रतिपादिका च गाथेयम् ।
अकसिणपवत्तगाणं, विरयाविरयाणं एस खलु जुत्तो ।
संसारपयणुकरणे, दव्वत्थए कुवदिट्टंतो ॥
अस्याः सङ्क्षेपार्थस्त्वयम् ' - अकृत्स्नप्रवर्तकानां विरताविरतानां संसारप्रतनुताकरणे जिनपूजादिके