________________
अर्हन्नेव वा ईश्वरः । अत्र = ईश्वरविषये केवलं संज्ञाभेदः = मुक्तबुद्धार्हदादिनाममात्रस्यैव भेदः, पदार्थस्तु एक एवेति ।
(४) यस्य = मुक्तबुद्धादेः "अनादिशुद्धः" इत्यादिः, आदिपदात् "सादिशुद्धः" इत्यादीनां संग्रहः । यो भेदः विशेषः तत्तत्तन्त्रानुसारेण कल्प्यते, मन्ये अहं यदुत सोऽपि = ईश्वरगतो विशेषोऽपि " न केवलं नामभेद एव निरर्थकः" इत्यपिशब्दार्थः, निरर्थकः ।
=
ધર્મપરીક્ષા
विशेषस्य (५) कथं स ईश्वरविशेषो निरर्थकः ? इत्यत्र कारणानि ह ईश्वरगतस्यानादिशुद्धत्वादिरूपस्य अपरिज्ञानात् = छद्मस्थैर्ज्ञातुमशक्यत्वाद् ईश्वरभेदोऽपि निरर्थक इत्यन्वयः कर्त्तव्यः ।
-
-
द्वितीयं कारणमाह - युक्तीनां = ईश्वरविशेषाणां अनादिशुद्धत्वादीनां साधनाय या युक्तयः प्रतिपाद्यन्ते, तासां जातिवादतः = कुयुक्तिप्रायत्वाद् इति भावार्थ: । तथा च ईश्वरविशेषसाधकानां युक्तीनां कुयुक्तिप्रायत्वाद् विशेषभेदोऽपि निरर्थक इति ।
+
=
प्रायो विरोधतश्चैव
=
तृतीयं कारणमाह अनादिशुद्धत्वसादिशुद्धत्वादीनां तैस्तैः परिकल्पितानां विशेषाणां परस्परं विरोधात् को विशेषः सम्यक् को वाऽसम्यग् इति ज्ञातुं न शक्यते, ततश्च विशेषभेदोऽपि निरर्थक एवेति ।
चतुर्थंकर भावतः फलाभेदाच्च = परमार्थत ईश्वरसाध्यस्य मोक्षादिफलस्य एकरूपत्वात्, ईश्वरोऽनादिशुद्धो वा स्यात् सादिशुद्धो वा, नित्यो वाऽनित्यो वा, न तेन तद्भक्तिसाध्यस्य फलस्य भेदो भवति । यदेव फलं अस्मदीश्वरभक्त्याऽस्माभिरिष्यते, तदेव फलमन्यैरपि स्वाभिमतेश्वरभक्त्येष्यते । ततश्च किं तेन ईश्वरगतविशेषकल्पनेन प्रयोजनमिति ।
ચન્દ્ર : યોગબિન્દુગ્રન્થમાં કહ્યું છે કે
(૧) આ પ્રમાણે માધ્યસ્થ્યને ધારણ કરીને ઐદમ્પર્યની અપેક્ષાએ (માત્ર શબ્દાર્થ પકડીને નહિ, પણ તાત્પર્યાર્થ પ્રમાણે) તત્ત્વનું નિરૂપણ કરવું જોઈએ. કાલાતીતે પણ આ જ વાત કરી હતી.
(૨) (કાલાતીતે કહ્યું છે કે) મુક્ત, અવિદ્યા વિગેરે પદાર્થો બોલનારા બીજા મતવાળાઓનો પણ નામાદિના ભેદથી પરમાર્થથી તો આ જ માર્ગ વ્યવસ્થિત છે. (અર્થાત્ આપણે જે ઈશ્વર, જે સંસાર કારણાદિ માનેલા છે. લગભગ તેવા જ ઈશ્વર, તેવા જ સંસાર કારણાદિ બીજાઓએ માનેલા છે. ફર્ક માત્ર નામનો, આકૃતિનો...છે.)
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૧૧૦