________________
双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双涨疑疑疑疑疑疑疑疑疑疑
धर्मपरीक्षा હું એમ બૌદ્ધ શિષ્યો એવા જ હતા કે “આત્મા અનિત્ય છે” એવી દેશનાથી જ એમનું રે ક હિત થાય. એટલે બુદ્ધ સર્વ પરમાર્થ જાણતા હોવા છતાં પણ અનિત્યાત્માનો ઉપદેશ છે
આપ્યો. એમ બાકીના સર્વજ્ઞોમાં પણ સમજી લેવું. પણ આમાં સર્વજ્ઞોનો મત જુદો જુદો જ તે સિદ્ધ થતો જ નથી.
એટલે સર્વજ્ઞોને એક = એક મતવાળા માની લઈને પણ તેમની દેશનાનો ભેદ ઉપર જ પ્રમાણે ઘટી જતો હોવાથી સર્વજ્ઞો અનેક = જુદા જુદા અભિપ્રાયવાળા સિદ્ધ થતા નથી.
यशो० : एकस्या एव तस्या वक्तुरचिन्त्यपुण्यप्रभावेन श्रोतृभेदेन भिन्नतया परिणतः, * कपिलादीनामृषीनामेव वा कालादियोगेन नयभेदात्तद्वैचित्र्योपपत्तेः तन्मूलसर्वज्ञप्रतिक्षेपस्य में महापापत्वात् ।
चन्द्र० : देशनाभेदेऽपि सर्वज्ञानामेकत्वं साधयितुं समकं द्वितीयं तृतीयं च समाधानमाह में - एकस्या एव तस्याः = "आत्मा कथंचिन्नित्यानित्यः" इत्याद्येकस्वरूपायाः पारमार्थिकाया
एव देशनायाः, वक्तुरचिन्त्यपुण्यप्रभावेन = कपिलबुद्धवीतरागादेर्योऽचिन्त्यः पुण्यप्रभावः, * तेन श्रोतृभेदेन = भीरुभोगलम्पटादिभेदेन भिन्नतया = "आत्मा नित्यः" "आत्मा अनित्यः" *
इत्यादिरूपतया, स्वहितानुकूलपदार्थग्रहणरूपतया परिणतेः = परिणमनात् “तद्वैचित्र्योपपत्ते:" में इति अनेन सहास्यान्वयः कर्त्तव्यः । इदं च द्वितीयं समाधानम् । । अयमत्र तात्पर्यार्थः । कपिलबुद्धादयः सर्वे सर्वज्ञाः “सर्वे पदार्थाः कथञ्चिन्नित्यानित्या में * एव" इत्यादि तत्त्वानि जानन्त्येव । ततश्च तैस्तथैव देशना प्रदत्ता । किन्तु यथा शिथिलस्य * साधोः “आधाकर्मादिभोजने नरकादिगतिर्भवति, न वा भवति, नात्रैकान्तः ।" इत्यादिप्रमाणदेशना 0
न हितकरी, किन्तु "आधाकर्मादिभोजने दुर्गतिपातो भवत्येव" इत्यादिरूपेण नयदेशनैव * तद्धितकरी । एवं "अहं मरिष्यामि, मम शरीरपुत्रभोगादिकं विनक्ष्यति" इत्यादिभयवतः,* * अत एव प्रतिक्षणमार्तध्यानयुक्तस्य "आत्मा नित्योऽनित्यश्च" इत्यादि देशनायाः सकाशात् .
"आत्मादयः पदार्था नित्याः" इति नयदेशनैवात्यन्तिकहितकरी । यतस्तां श्रुत्वा स * आत्मनित्यत्वबोधेन मृत्युभयान्मुच्यते ।
एवं स्त्रीशरीरपुत्रादिषु लम्पटस्य "आत्मादयो नित्या अनित्याश्च" इति प्रमाणदेशनायाः * सकाशात् “आत्मादिकं सर्वं वस्तु क्षणिकम्" इति देशनाऽऽत्यन्तिकहितकरी भवति । यतस्तां * श्रुत्वा स्त्रीशरीरादिकं क्षणिकं ज्ञात्वा तद्रागान्मुच्यत इति ।
双双双双双双双双双双双双双双双双双双双双双双双双双双双获琅琅琅双双双双双瑟瑟寒寒寒寒寒寒双双双联双双双双双双双双双双双赛赛双双双双双双双双双
આ મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીચા ટીકા + ગુજરાતી વિવેચન સહિત ૧૦૦