________________
*******************************
***************************************
ધર્મપરીક્ષા
इत्थं च येषां श्रोतॄणां नयदेशनाऽऽत्यन्तिकहितकरी, तेषां सर्वज्ञोक्ता प्रमाणदेशना न तथाविधहितकरी भवेत् । किन्तु अचिन्त्यपुण्यप्रभाववन्त एते सर्वज्ञा महात्मानः । ततश्च तादृशपुण्यप्रभावात्तेषां प्रमाणदेशनाऽपि श्रोतृहितानुसारेण तत्तन्नयदेशनारूपतया परिणमति । मृत्युभीरोर्हि प्रमाणदेशनां श्रुत्वाऽपि "सर्वज्ञेनात्मा नित्यः प्रतिपादितः, ततश्च नाधुना मम मृत्युभयं, नाहं कदापि म्रिये" इत्येवं नयप्रधानो बोधो भवति । भोगलम्पटस्य च “सर्वज्ञेन सर्वं क्षणिकं प्रतिपादितं, ततः किं स्त्र्यादिषु गाढरागेण ? एतत्सर्वं विनङ्क्ष्यति” इति नयप्रधानो बोधो भवति ।
इत्थं च सर्वेषां सर्वज्ञानां मतं तावदेकमेव, किन्तु तेषामेव पुण्यप्रभावात् श्रोतॄणां स्वहितानुसारेण सा देशना नित्यत्वानित्यत्वादिनयदेशनारूपतया परिणता । ततश्च बोद्धशिष्यैर्भोगलंपटैर्जगति कथितं "बुद्धेन सर्वं क्षणिकं निरूपितम्" इति । सांख्यशिष्यैर्मृत्युभीरुभिर्जगति प्रतिपादितं "कपिलेन आत्मा नित्यः प्रतिपादितः" इति । ततश्च जगति इदं प्रसिद्धिः आपन्नं यदुत "कपिलमते आत्मा नित्य:, बुद्धमतेऽनित्यः" इति । परमार्थतस्तु तेषां मतं एकमेव "सर्वं कथञ्चिन्नित्यानित्यम्" इति ।
एवं च सर्वज्ञमतस्यैकत्वात्सर्वज्ञानामप्येकत्वं तद्देशनाभेदेऽपि न दुर्घटमिति सिद्धम् ।
तृतीयं समाधानमाह - कपिलादीनामृषीनामेव वा = "न तु सर्वज्ञानां" इति प्रतिपादनार्थं “ऋषीनां” इति पदमुपात्तमिति बोध्यम् । अस्य च “तद्वैचित्र्योपपत्तेः" इत्यनेन सहान्वयः कर्त्तव्यः । “कालादियोगेन नयभेदात् कपिलादीनां ऋषीणामेव तद्वैचित्र्योपपत्तेः” इति तु वाक्यान्वयार्थः ।
अयं भावः कपिलो बुद्धश्च न स्वयं सर्वज्ञः, किन्तु ते महर्षिण एव। महावीरादिसर्वज्ञैः सर्वं कथञ्चिन्नित्यानित्यं इत्यादिरूपा प्रमाणदेशना प्रदताऽऽसीत् । किन्तु कपिलकाले कपिलर्षेः आत्मनित्यत्वनय एव हितकारी अभवत् । स एव नयस्तस्य रुचितः । बुद्धकाले बुद्धस्य आत्माऽनित्यत्वनय एव हितकारी अभवत् । स एव नयस्तस्य रुचितः । ततश्च कपिलेनात्मनित्यत्वस्य बुद्धेन चात्माऽनित्यत्वस्य सर्वज्ञदेशनैकांशभूतस्य देशना प्रदत्ता । इत्थं च कालादियोगेन यो नयादिभेदोऽभवत्, तेन असर्वज्ञनां तेषां महात्मनां परमार्थो जानानामपि देशनाविचित्रता समुत्पन्ना । न च तया मुख्यसर्वज्ञानां मतं भिन्नं सिद्ध्यति । ततश्च मुख्यसर्वज्ञानां मतस्येक्त्वेऽभ्युपगम्यमानेऽपि देशनाभेदोपपादनसम्भवान्न सर्वज्ञमतस्यानेकत्वं, ततश्च न सर्वज्ञानामनेकत्वमिति ।
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા - ગુજરાતી વિવેચન સહિત ૧૦૧