________________
अशेषमस्ति, यावच्च स्तोकोऽपि व्यवसायः = प्रवृत्तिः अस्ति, तावत् कुर्याः आत्महितं, मा
शशिराज इव शोचिष्यसि - इति । सम्मति = साक्षिपाठं उद्भावयन् = प्रकटयन् पूर्वपक्षः । व्यक्तां = स्पष्टां असंलग्नकतां = अयुक्तियुक्ततां, युक्तिबाह्यतामिति यावत् अनवगच्छन् पूर्वपक्षः। * इदमत्र रहस्यम् = पूर्वपक्षः कथयति-कृतस्य पापस्य तस्मिन्नेव भवे प्रायश्चित्तं सम्भवति,
न तु परभवे । यत उपदेशमालायां शशिराजं दृष्टान्तं कृत्वाऽऽत्महितकरणोपदेशो. दत्तः । * तत्रापि "यावद् आयुः शेष" इति भणनेन इहभवायुष्कसद्भावे एव आत्महितकरणमुपदिष्टं । * प्रायश्चित्तं चात्महितमेव । एवं च अयमर्थः पर्यवसन्नो यदुत "यावदिहभवो विद्यते, तावदेव
प्रायश्चित्तादिकं कुर्याः, यदि न कुर्याः, तहि परभवे शोचिष्यसि"-इति । ___ यदि च परभवेऽपि इहलोककृतपापप्रायश्चित्तं सम्भवेत् तर्हि ग्रन्थकारो नैवं भाषेत, प्रत्युतैवं
भाषेत यदुत 'यदि इहभवे प्रायश्चित्तादिकं न कृतं, तदाऽपि मा भीः, परलोके करिष्यसि * इति । न चैवं भाषितम् । तस्मात् निश्चीयते यदुत 'परलोके इहभवकृतपापप्रायश्चित्तं न
सम्भवति' इति । ___ग्रन्थकृता तु पूर्वमेव "सव्वा वि हु पव्वज्जा" इति पाठेन परभवेऽपि इहभवकृत* पापप्रायश्चित्तं साधयित्वा पूर्वपक्षो दिङ्मूढः कृत एव ।
उपदेशमालावचनं तु हे पूर्वपक्ष ! त्वमेव सम्यग् न जानासि ? यदि हि आत्महितपदेन से प्रायश्चित्तं गृह्यते, तर्हि सर्वविरतिरपि गृह्यते । ततश्च भवदुक्तरीत्येदमपि आपतितं यदुत "यावद् । * इहभवोऽस्ति, तावत्सर्वविरतिं कुर्याः" इति भावार्थलाभात् परभवे सर्वविरतिरपि भवता में #निषेधनीया स्यात् । * यदि च त्वमेवं उत्तरं दास्यसि यदुत "उपदेशमालायां शीघ्रमात्महितकरणार्थं उपदेशो अदत्तः । इहभवे आत्महितं स्वाधीनं, परभवे तु तद् भवति वा न वा । न हि परभवः ।
अस्मादृशां प्रत्यक्षः, येन तत्रात्महिताभिलाषः कर्तुं युक्तः" इति । म तर्हि वयमपि इदमेव प्रत्युत्तरं ददामो यदुत "इहभवे प्रायश्चित्तादिकं स्वाधीनं, परभवे तु , * तद् भवति वा न वा, यतः परभवे वयं कुत्र गच्छम इति न जानीमः, ततोऽधुनैवात्महितकरणं । में युक्तम् । न चैतावन्मात्रेण परलोके इहभवकृतपापप्रायश्चित्ताभावः सिद्ध्यति" इति ।। * यन्द्र : " मम ४३८॥ पापान प्रायश्चित्त ५२ममा ५५ 25 3मा
MARAXXXXXXXXXXAAAAAAAAEETARRERA
મહામહોપાધ્યાય ગણોજિયાજી વિરચિત હાર્મપરી • નોખી તીકા * ગુજરાતી વિવેક સહિત ૧૧૯ છે