________________
कर्मबध्नाति पापं यः खल्वनुपरततीव्रपरिणामः । अशुभानुबन्धयोगादनन्तसंसारिता तस्य ।।७।।
=
चन्द्र: समादधाति अशुभानुबन्धयोगात् अनन्तसंसारिता इति गाथार्थः ।
अनुपरततीव्रपरिणामो यः खलु पापं कर्म बध्नाति, तस्य
ચન્દ્ર : ગુરુઃ અટક્યા વિનાના તીવ્ર સંક્લેશવાળો જે જીવ પાપ કર્મ બાંધે છે, તેને અશુભ અનુબંધનો યોગ થવાના લીધે અનંતસંસાર થાય.
यशो० कम्मति । कर्म बध्नाति पापं यः खल्वनुपरततीव्रपरिणामः = अविच्छिन्नतथाविधसंक्लिष्टाध्यवसायः स्वेच्छानुरोधान्नियतास्त्रवप्रवृत्तो वाऽनियतास्त्रवप्रवृत्तो वा नियतोत्सूत्रभाषी वाऽनियतोत्सूत्रभाषी वाऽप्राप्तानुशयः । तस्याशुभानां ज्ञानावरणीयादिपापप्रकृतीनां, अनुबन्धस्य = उत्तरोत्तरवृद्धिरूपस्य बध्यमानप्रकृतिषु तज्जननशक्तिरूपस्य वा, योगात् = संबन्धादनन्तसंसारिता भवति,
चन्द्र : अविच्छिन्नतथाविधसंक्लिष्टाध्यवसायः तथाविधः तीव्र: संक्लिष्टाध्यवसायः
ધર્મપરીક્ષા
=
=
= अविच्छिन्नः
अशुभाध्यवसायो यस्य सः ।
=
ननु कर्मग्रन्थाभिप्रायविरुद्धमिदम् । यतः कर्मग्रन्थानुसारेण कोऽप्यध्यवसायोऽन्तर्मुहूर्तकालमात्रमेवावतिष्ठते । ततः कथं तीव्रोऽध्यवसायोंऽविच्छिन्नो भवितुमर्हतीत्यतस्तात्पर्यमाहस्वेच्छानुरोधात् = स्वेच्छयैव नियतास्त्रवप्रवृत्तः = आधाकर्मादिरुपे नियते = स्थिरे आस्रवे प्रवृत्तः, अनियतास्त्रवप्रवृत्तः कदाचिदाधाकर्मिके, कदाचित् स्थापनादोषे, कदाचित् संखडिदोषे इत्येवं परिवर्तमानेषु, अत एवानियतेषु आश्रवेषु प्रवृत्तः । एवं नियतोत्सूत्रभाषी इत्याद्यपि अवगन्तव्यम् । अप्राप्तानुशयः "हा दुष्ठु कृतं" इत्यादिरुपेणाप्राप्तोऽनुशयः पश्चात्तापो येन स ।
अनवरतं प्रवृत्तः
=
तथा च यद्यपि तीव्रोऽध्यवसायोऽविच्छिन्नो न सम्भवति, तथाऽपि तीव्राध्यवसायेन किञ्चन पापं कृत्वा यावत्कालं पश्चात्तापो न जायते तावत्कालं उपयोगरुपेणाविद्यमानोऽपि तीव्राध्यवसायो लब्धिरुपेण विद्यमानोऽवगन्तव्यः, ततश्च स अध्यवसायोऽविच्छिन्नो भणितुं शक्यते इति ।
तस्य = अनुपरततीव्र परिणामस्य । उत्तरोत्तरवृद्धिरुपस्य = प्रथमतीव्राध्यवसायकाले મહામહોપાધ્યાય થશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૦૧૦૮