________________
EEFEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEEEE
A
R RITERATURELIEEEEEEEEEEEEEEEE मावसहि सामायारी a न चन्द्र. - तेन आवश्यकीसामाचारीलक्षणमध्ये 'गुरूपदेशेन' इति, 'विहितकार्येण' इति, 'उपयुक्तं' इति, 'गच्छतः' इति, 'आवश्यकीति शब्दः' इति च पदानां ग्रहणेन इत्यर्थः । क्रमशः तेषां फलमत्र प्रतिपाद्यते ।। प्रथमं 'तेन न गुर्वनुपदेशेन'... इत्यादिवाक्यस्य भावार्थः प्रतिपाद्यतेऽत्र । तथाहि
'गुरूपदेशेन' इत्यादिपदानां ग्रहणेन गुर्वनुपदेशेन गच्छतः आवश्यकीशब्दप्रयोगे नातिव्याप्तिः, गुरूपदेशपूर्वकमपि विहितकार्यं विना गच्छतः तत्प्रयोगे नातिव्याप्तिः, गुरूपदेशपूर्वकं कार्यसद्भावेऽपि की अनुपयुक्ततया गच्छतः तत्प्रयोगे नातिव्याप्तिः, अगच्छतः एव आवश्यकीपदप्रयोगे नातिव्याप्तिः । गच्छतोऽपि केवलक्रियायां स्थण्डिलगमनादिरूपायां आवश्यकीपदप्रयोगरहितायां नातिव्याप्तिरिति ।
इदमत्र हृदयम् । गुरूपदेशपूर्वकं विहितकार्यार्थं उपयुक्ततया गच्छतः आवश्यकीपदप्रयोगः आवश्यकीसामाचारी भवति । ततश्च यः साधुः गुरुमनापृच्छ्यैव स्थण्डिलादिविहितकार्यार्थं उपयुक्ततया गच्छन् आवश्यकीपदप्रयोगं करोति, स आवश्यकीसामाचारीपालको न गण्यते, गुर्वनुज्ञाया अभावात् । तथा गुरूपदेशपूर्वकं कौतुकदर्शनाद्यविहितकार्यार्थं उपयुक्ततया गच्छतः स प्रयोगो न सामाचारी भवति, विहितकार्याभावात् । यद्यपि सद्गुरुः अविहितकार्येऽनुज्ञां नैव ददाति । तथापि कश्चिन्मायावी मुनिः। २ चैत्यवन्दनादिविहितकार्यव्याजेन यदाऽनुज्ञां याचते, तदा गुरुरजानानः सन् अनुज्ञां दत्ते इति बोध्यम् । र तथा गुरूपदेशपूर्वकं विहितकार्यार्थं गच्छन्मुनिः यदि ईर्यासमित्यादिकं न पालयति, तर्हि तत्प्रयोगेऽपि
सामाचारीमान् न भवति । यस्तु केवलं शब्दप्रयोगं करोति, न तु उपाश्रयाद् बहिर्गच्छति । तस्यापि सामाचारीपालनं न गण्यते । एवं गुरूपदेशपूर्वकं विहितकार्यार्थं उपयुक्ततया गच्छन्नपि यदि तत्प्रयोगं न करोति, तदा सामाचारी न गण्यते ।
આટલા વિશેષણો લીધા, એટલે હવે (૧) ગુરુના ઉપદેશ વિના જનારાનો તે પ્રયોગ, (૨) કોઈપણ વિહિત કામ વિના માત્ર એમને એમ કરાતો તે પ્રયોગ આવસહિ નહિ ગણાય. એમ જે જતો હોય પણ “આવસહિ આ શબ્દ જ ન બોલે તો પણ એ આવસ્યતિ ન ગણાય. 8 અહીં ‘શાસ્ત્રોક્ત કાર્ય માટે જતો' એમ કહેવાથી એ લાભ થયો કે ગમે તેવા કાર્ય માત્રનું આલંબન લઈને છે છે જનારાની આવશ્યકી શુદ્ધ ગણાતી નથી.
यशो. - तथा च हारिभद्रं वचः-कज्जं पि नाणदंसणचरित्तजोगाण साहणं जं तु ।। जइणो सेसमकज्जं ण तस्स आवस्सिया सुद्धा इति ॥३६॥
चन्द्र. - ननु विहितकार्यं किमुच्यते ? इत्यत आह कज्जं पि नाणदंसणेत्यादि । तथा च । ज्ञानदर्शनचारित्रवृद्धिकराणि यानि कार्याणि, तान्येव विहितकार्याणि उच्यन्ते । तदर्थमेव साधुः उपाश्रयाद् बहिनिर्गच्छति । यत्तु ज्ञानादिसाधकं न भवति, तत् साधूनामकार्यमेव । तादृशाकार्यात्मकं कार्यं कुर्वतः। आवश्यकी शुद्धा नैव भवतीति ।
अनावश्यककार्याणि तु कौतुकदर्शनं, नद्यादिषु पर्यटनं, श्रावकादिगृहेषु निष्कारणं गमनं, संपूर्णनगरदर्शनार्थं आसन्ने निर्दोषस्थण्डिलभूमिसद्भावेऽपि दूरं यावद् गमनं इत्यादीनि सूक्ष्मबुद्ध्या विभावनीयानि ॥३६॥
CEEEEE
SHISHESISTERESERI
COEETEE'
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૫૪ છે NEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE.CO