________________
55555ESSFEL
AREEEEEEEEEEEEEEEEEEEEEE E EEEEER
तथाडार सामायारी Des चन्द्र. - एतादृशे उपयोगपूर्वकं वदति गीतार्थसंविग्ने । अन्यत्र अनुपयोगपूर्वकं वदति गीतार्थसंविग्ने, उपयोगपूर्वकं वा वदति अगीतार्थसंविग्ने, गीतार्थासंविग्ने, अगीतार्थासंविग्ने, गीतार्थसंविग्नपाक्षिके च की कथम् केन प्रकारेणेच्छाकार: कर्तव्यः ? समाधानमाह ।
→ इतरस्मिन् विकल्पेन तथाकार: कर्तव्यः । स च विकल्प: व्यवस्थितः । संविग्ने (संविग्नपाक्षिके) गीतार्थे तथैव अविकल्पेनैव । अन्यत्र युक्तिक्षमे - इति गाथार्थः । છે શિષ્યઃ ગીતાર્થ-સંવિગ્ન ઉપયોગપૂર્વક બોલતો હોય તો એવા વક્તાના વચનમાં અવિકલ્પથી=નિયમથી છે
તથાકાર કરીએ. પણ જે વક્તા આવો ન હોય ત્યાં તથાકાર કેવી રીતે કરવો ? { ગર : ગાથાર્થ : બીજા વક્તાને વિશે વિકલ્પ તથાકાર કરવો. તે વિકલ્પ આ પ્રમાણે વ્યવસ્થિત છે કે જે જ સંવિગ્નપાક્ષિક ગીતાર્થના વચનમાં અવિકલ્પ કરવો અને અન્યત્ર=બીજા વક્તાઓના યુક્તિયુક્ત વચનમાં છે છે તથાકાર કરવો.
यशो. - इयरम्मित्ति । इतरस्मिन् उक्तलक्षणादन्यत्र विकल्पेन तथाकार: कर्त्तव्यः । एक विशेषविधिनिषेधयोस्तदितरविशेषविधिनिषेधफलकत्वादुक्तलक्षणेऽविकल्पेन तथाकारविधावन्यत्र विशिष्टनिषेधलाभात्तत्रापि तथाकारस्य स्वविषयप्राप्ततया विशेषणभावमादायैव तत्पर्यवसानादन्यत्र विकल्पो लभ्यत इति द्रष्टव्यम् ।
चन्द्र. - समाधत्ते → उक्तलक्षणादन्यत्र उपयोगपूर्वकं वदतः गीतार्थसंविग्नस्य सकाशादन्यस्मिन् । अगीतार्थादौ विकल्पेन भजनया, "कुत्रचित्कर्तव्यः कुत्रचिच्च न" इत्यादिरूपया । ननु गीतार्थसंविग्ने । तथाकार: करणीयः इत्युक्तं । किन्तु तावन्मात्रेण "अन्यत्र विकल्पेन तथाकार: कर्तव्य" इत्यर्थस्य प्राप्तिस्तु कथं भवेत् ? इत्यत आह एकविशेषेत्यादि । एकस्मिन् गीतार्थसंविग्ने यो विशेषविधिः अविकल्पेन
र: कर्तव्यः, इति अविकल्पात्मकविशेषणेन विशिष्टः यः तथाकारः तत्स्वरूपो यो विधिः सर इतरस्मिन् अगीतार्थादौ विशेषनिषेधं='अविकल्पेन तथाकारः न कर्तव्यः' इति अविकल्पविशेषणेन विशिष्टस्य तथाकारस्य निषेधं साधयति, न तु शुद्धतथाकारस्य निषेधं साधयतीति । एवं च यतोऽत्र उपयोगपूर्वकं वदति गीतार्थसंविग्ने अविकल्पविशिष्टस्य तथाकारस्य विधानं कृतं, ततोऽत्र अगीतार्थादौ अविकल्पविशिष्टस्यैव
तथाकारस्य निषेधः सिद्ध्यति । न तु अविकल्पमात्रस्य निषेधः, न वा तथाकारमात्रस्य निषेधः । अथ च र अगीतार्थादावपि युक्तिपूर्वकं वचनं वदति तथाकारकरणं युक्तमेव । यतः युक्तिपूर्वकं तद्वचनं जिनवचनानुसाशि
तस्मिंश्च तथाकाराकरणे मिथ्यात्वादिदोषाः भवेयुः । एवञ्च अगीतार्थादौ युक्तिपूर्वकं वचनं वदति तथाकार: स्वविषयं प्राप्तः कर्तव्यो भवतीति यावत् । प्रकृते तु अगीतार्थादौ अविकल्पविशिष्टस्य तथाकारस्य निषेधः। सिद्ध: अकर्तव्यत्वं सिद्धमिति यावत् । ततश्च विरोधः । तादृशे अगीतार्थादौ तथाकार: कर्तव्योऽपि भवति, अविकल्पविशिष्टः तथाकार: अकर्तव्योऽपि भवति इति । तत्परिहाराय अविकल्पविशिष्टस्य तथाकारस्य निषेधः अविकल्पात्मकविशेषणस्यैव निषेधरूपतया मन्तव्यो भवति । तथा च अगीतार्थादौ अविकल्पेनैव तथाकारस्य निषेधः । विकल्पेन तु तथाकारस्य नैव निषेध इति अगीतार्थादावपि विकल्पेन तथाकारस्य विधानं भवति ।
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૦ ૧૩૩ NEERSITES88888888SHERRIGHERSITERSTORESERSHEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEERB