________________
JEEEEEEEEEEEEE
2330003080385338GESGGIGRESSETTEERS50380863GGESTERG98038
BREM तथाार सामायारी एष भावार्थः प्रतिपादितः । ३ अक्षरार्थस्त्वयम् एकविशेषविधिनिषेधयो:=एकस्मिन् क्रियमाणो यो विशेषो विधिः विशेषनिषेधो वा, से तयोः तदितरविशेषविधिनिषेधफलकत्वात् तदितरस्मिन् यो विशेषविधिः विशेषनिषेधो वा,
तादृशफलजनकत्वात् । एषः तावत्समासः प्रतिपादितः । वस्तुतस्तु "तदितरविशेषनिषेधविधिफलकत्वात्" 8 का इत्येव स्पष्टार्थं वक्तव्यम् । उक्तलक्षणे उपयोगपूर्वकं वदति गीतार्थसंविग्ने अविकल्पेन तथाकारविधौ=8
अविकल्पेन तथाकार: करणीय इति विधौ क्रियमाणे सति अन्यत्र अगीतार्थादौ विशिष्टनिषेधलाभात्=8 'अविकल्पेन तथाकारः न करणीयः' इति विशिष्टनिषेधस्यैव लाभात्, न तु 'तथाकारो न करणीयः' इति निषेधस्य लाभः । तत्रापि अगीतार्थादौ तथाकारस्य स्वविषयप्राप्ततया युक्तिपूर्वकं वचनं वदति। अगीतार्थादौ कर्तव्यतया विशेषणभावमादायैव अविकल्पात्मकं यद्विशेषणं, तादृशो यः भावः, तमादायैव तत्पर्यवसानात् निषेधस्य सिद्धत्वात् । अविकल्पस्यैव निषेधोऽत्र सिद्ध्यति, न तु तथाकारमात्रस्य निषेध इति । र भावः ।
अत्र अबुधजनबोधार्थं दृष्टान्तं प्रतिपादयामि 'मरितुमिच्छुना=मुमूर्षुणा विषयुक्तं अन्नं भक्षणीयं' इति विधिः।। ततश्च "जीवितुमिच्छुना=जिजीविषुणा विषयुक्तं अन्नं न भक्षणीयम्" इति विषयुक्तस्यानस्य निषेधो लभ्यते, न तु "जिजीविषुणा अन्नं न भक्षणीयं" इति अन्नमात्रस्यैव निषेधोऽत्र लभ्यते । अथ जिजीविषोस्तु अन्नं भक्षणीयमेवास्ति, तविना जीवनस्यैवासंभवात् । ततश्च "जिजीविषुणा अन्नं भक्षणीयं, जिजीविषुणा विषविशिष्टमन्नं न भक्षणीयम्" इति वाक्यद्वयस्येदमेव तात्पर्यं यत् "जिजीविषुणा विषं न भक्षणीयं, किन्तु अन्नं स तु भक्षणीयम्" इति । एवञ्चात्र मुर्मूषौ विषविशिष्टस्यान्नस्य विधि: जिजीविषौ विषविशिष्टस्यान्नस्य निषेधं । साधयति, स एव च निषेधः विषरूपस्य विशेषणस्यैव निषेधरूपतया सिद्ध्यतीति । एवमत्रापि गीतार्थसंविग्ने । अविकल्पविशिष्टस्य तथाकारस्य विधिः अगीतार्थादौ अविकल्पविशिष्टस्य तथाकारस्य निषेधं साधयति, स एव
च निषेधः अविकल्परूपस्य विशेषणस्यैव निषेधरूपतया सिद्ध्यति । एवञ्च अगीतार्थादौ विकल्पेन तथाकार: का कर्तव्यः, न त्वविकल्पेनेति तात्पर्य सिद्धम् ।। 1 यथा एकस्मिन् विशेषो विधिः अपरस्मिन् विशेषनिषेधं साधयति, तथैवैकस्मिन् विशेषनिषेधोऽपरस्मिन् । विशेषविधिं साधयति । यथाऽत्रैव "जिजीविषुणा विषविशिष्टं अन्नं न भक्षणीयम्" इति विशिष्टस्य निषेधः "मुर्मूषुणा विषविशिष्टं अन्नं भक्षणीयम्" इति विशेषविधि साधयति । स एव च विशिष्टविधिः "मुर्मूषुणा विषं
भक्षणीयम्" इति विशेषणस्यैव विधिरूपतया परिणमति । यतः मुमूर्षोः अन्नात्मकस्य विशेष्यस्य निषेध एव । र प्रकृते तु 'अगीतार्थादौ अविकल्पेन तथाकारः न कर्तव्य' इति विशिष्टो निषेधः 'गीतार्थादौ अविकल्पेन
तथाकारः कर्तव्यः' इति विशिष्टविधिं साधयति । न त्वेकतरस्यापि निषेधः । ततश्चात्र विशिष्टविधिः विशेषणविधिरूपतया न परिणमति । किन्तु विशिष्टविधिरूपतयैव विद्यते । अतिगहनमिदं तत्वं सूक्ष्मप्रज्ञया विभावनीयम्।
ટીકાર્થ : ઉપયુક્ત, ગીતાર્થ-સંવિગ્ન સિવાયના વચનમાં વિકલ્પથી તથાકાર કરવો. (शिष्य : माको अर्थ तमे या मापारे ४२ ॥ ?)
ગુરુ : કોઈપણ એક પદાર્થમાં વિશેષ વસ્તુનું વિશિષ્ટ વસ્તુનું વિધિ-વિધાન એ તેનાથી બીજામાં RoRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRR # મહામહોપાધ્યાય ચશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૩૪ STERGESTERESTRESSETTESSETTERRRRRRREETTEERTEREEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE