________________
स्तित्वस्य प्रतीतिसिद्धत्वानेतान्त्वावनिपरसपिरदनाय
१३२ भाषारहस्यप्रकरणे - स्त.१. गा. २९
० अनेकान्तवादनिरासनिरसनम् ० भेदेन विरोधाभावात स्वरूपेणाऽस्तित्वकालेऽपि पररूपादिना नास्तित्वस्य प्रतीतिसिद्धत्वात, अन्यथा पररूपादिनाप्यस्तित्वं घटादेः स्यात्।
यत्तु अनेकान्तवादनिरासे 'यदि चान्येन स्वभावेन भेदोऽन्येन च स्वभावेनाभेद इत्यभ्युपगम्यते तदाऽन्यद्रव्यपर्यायाख्यमेकं वस्तु तयोरन्ये एव चान्योन्यभिन्ना द्रव्यपर्याया इति नैकमनेकात्मकं वस्तु वस्तुतः समर्थितं स्यात् । स्वभावेन चाभेदे देशकालाभेदादभेद इति किमनयाऽयुक्तघोषणया? ययोर्हि स्वभावेन भेदो न तयोर्देशकालाभेदादप्यभेदो यथा रूपरसयोः। यदि च द्रव्याणां द्रव्यस्वभावेनाऽभेदस्तदा पर्यायाणां द्रव्यात्मन्यनुप्रवेशात् द्रव्यमेव केवलमवशिष्यते इति सङ्ख्येयभेदाभावात् सङ्ख्याबाहुल्यं नास्तीति पर्याया इति बहुवचनं न प्राप्नोति। सञ्ज्ञाभेदाभावाच्च न तदाश्रयः सञ्ज्ञाभेदः' इति जितारिणोक्तं, तत्तु अतिसंस्कृततुल्यमाभाति । तथाहि लेखशालिकामात्रपरिचयी क्वापि पुरे पण्डितपाशः देवपूजार्थं वाटी पुष्पपत्र्यर्थी गच्छंस्तलारक्षेण बभाषे- क्व भोः! यासि? स आह-परस्त्रीग्रहणाय यामि'। तेन हि पत्रीशब्दोऽत्र रूढ इति किं विशेषशब्दं प्रयुञ्ज' इत्याशयादूचे। रुष्टेन तलारक्षेण छिन्ना नाशा। ततो लोके रूढम् - अतिसंस्कृतेन विनष्टम् । तद्वत् दार्शनिकक्षेत्ररूढविकल्पशस्त्राश्रितोऽपि स्याद्वादविद्यया स प्रत्यक्षादिप्रमाणसाहाय्यया छिद्यते। सामान्यतः परस्परविरुद्धयोरपि सत्त्वासत्त्वयोरेकत्र समावेशः प्रसिद्ध एव। यदि चाऽन्वयव्यतिरेकिधूमादिहेतौ सपक्षे सत्त्वं विपक्षे चासत्वं न स्यात् तदा कथं तवानुमानप्रवृत्तिरपि? हेतौ त्रिरूपासिद्धेः। एवञ्चापेक्षाभेदेन भेदाभेदावपि न परस्परविरुद्धौ। समानपरिणामश्चाऽसमानपरिणामाविनाभावी, अन्यथैकत्वापत्तितः समानत्वायोगात्। ततो यदा समानपरिणामोऽसमानपरिणामसंलुलितः प्राधान्येन विवक्ष्यते तदाऽसमानपरिणामस्य प्रतिव्यक्ति भिन्नत्वात् तदभिधाने बहुवचनं यथा घटा इति। यदा तु स एव एकः समानपरिणामः प्राधान्येन विवक्ष्यते इतरस्त्वसमानपरिणाम उपसर्जनीभूतस्तदा सर्वत्राऽपि समानपरिणामस्य एकत्वात् तदभिधाने एकवचनं यथा सर्वोऽपि घटः पृथुबुध्नोदराद्याकार इति। अनेकान्तवादाऽनुपगमे तु माध्यमिककारिकाकृतो नागार्जुनस्य 'अनिरोधनुत्पादमनुच्छेदमशाश्वतम् अनेकार्थमनानार्थमनागममनिर्गमम् । यं प्रतीत्य समुत्पादं प्रपञ्चोपशमं शिवं देशयामास संबुद्धस्तं वंदे द्विपदांवरम् ।। (मा.का. १) इति वचनं कथमुपपत्स्यते? __ यत्तु सप्तभंगीप्रथमाङ्गनिरसने-'अस्तीति वर्तमानत्वं बोध्यते स्यादिति कालत्रयानवमर्शिविधेयत्वम् । तयोः परस्परविरुद्धयोः कथमेकस्मिन्नर्थे पर्यवसानं? युगपद् बोध्यत्वमिति' - (ब्र.सू. २/२/३३ क.प.पृ. ५६१) कल्पतरुपरिमलकारेणोक्तं तदनुक्तोपालम्भमात्रम, स्याच्छब्दस्य निश्चितापेक्षाबोधकत्वाभ्युगमात्। तदुक्तं समन्तभद्रेणाऽऽप्तमीमांसायां 'वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषणम। स्यान्निपातोऽर्थयोगित्वात तव केवलिनामपि' || (आ.मी.श्लो. १०३)।
अत एव 'सर्वत्रैव स्याच्छब्दो भवतीत्यादिर्थ (ब.सू. २/२/३२- वि. भा.) इति विज्ञानामृतभाष्यकृद्वचनं प्रत्युक्तम् तदुक्तं भामत्यां' स्याच्छब्दः खल्वयं निपातस्तिङ्गन्तप्रतिरूपकोऽनेकान्तद्योती' (ब्र.सू. २/२/३३- भा.) इति। एतेन आधुनिकानां 'बलदेव-राधाकृष्ण-दामोदर-हिरियन्नादीनां- 'स्याच्छब्दः अस्धातुविधिलिङ्कपः सम्भावनार्थवाचकः । ततोऽनेकान्ते प्रतिनियतवस्तुस्वरूपं न निश्चीयते' इति प्रलापः परास्तः, 'सर्वथात्वनिषेधकः अनेकान्तिको द्योतक: कथञ्चिदर्थे स्याच्छब्दो निपातः (पं.का.गा. १४ अमृ.वृत्ति) इति पञ्चास्तिकायवृत्तिवचनात् । उक्तञ्च प्रकृतप्रकरणकारेणापि स्याद्वादकल्पलतायां -'तत्तदपेक्षागर्भतत्तदनेकपर्यायकरम्बितत्वाद् वस्तुनस्तथा तथा प्रयोगे तत्तदपेक्षालाभार्थं स्यात्कारमेव प्रयुञ्जते सर्वत्र प्रामाणिकाः, अन्यथा निराकांक्षमेव सर्वं वाक्यं प्रसज्येत'। (शा.वा.स.स्त. ७ श्लो.२१ स्या.क.वृ.) अभिप्रायान्तरनिषेधे छलमात्रत्वपर्यवसानात्। तदुक्तं न्यायभाष्यकारेणाऽपि- 'यथा वक्तुरभिप्रायः तथा शब्दार्थौ अनुज्ञेयौ प्रतिषेध्यौ वा नच्छन्दतः (न्या.भा.पृ. ८१) इति। न हि पररूपेण नास्तित्वे सत्यपि स्वरूपेण