________________
* विज्ञानामृतभाष्य-श्रीकण्ठभाष्यप्रभृतीनां समीक्षा *
१३३ यदस्तित्वं तद् विलीयते येन तत्तपेक्षागर्भो वस्तुत्वरूपनिश्चयो न स्यात्। अतोऽनुक्तोपालम्भः केवलं स्याद्वादद्वेषं एकान्तवाददृष्टिरागं च द्योतयति। ___ अत एव श्रीकण्ठभाष्यटीकायां - 'सर्वथोपाधिभेदं प्रत्याचक्षाणस्य च 'अयं अस्याः पुत्रः अस्याः पतिः अस्याः पिता अस्याः श्वसुरः इत्यादिव्यवस्थापि न सिध्येदिति कथं तत्र तत्र स्याद्वादी मातृत्वाधुचितव्यवहारान् व्यवस्थयाऽनुतिष्ठेत् । तस्मात् सर्वबहिष्कार्योऽयं अनेकान्तवादः (श्री. कं. टी. पृ. १०३) इति प्रलपन्नप्पयदीक्षितः सर्वैर्बहिकार्यः अनुक्तोपालम्भदानात् । न हि वयमुपाधिभेदं प्रत्याचक्ष्महे। स्वाऽपृथग्भूतोपाधिविशेषं पुरस्कृत्य वस्तुस्वरूपं प्रतिपादयन्तो वयं किमित्युपालभ्यामहे? तदुक्तं अन्ययोगव्यवच्छेदद्वात्रिंशिकायाम् 'उपाधिभेदोपहितं विरुद्ध नार्थेष्वसत्त्वं सदवाच्यते च । इत्यप्रबुध्यैव विरोधभीता जडास्तदेकान्तहताः पतन्ति ।। (अन्ययो. द्वा. श्लो. २४) - यत्तु विज्ञानमृतभाष्ये "नैकस्मिन्यथोक्तभावाभावादिरूपत्वमपि। कुतः? असम्भवात्। प्रकारभेदं विना विरुद्धयोरेकदा सहावस्थानसंस्थानाभावात्। प्रकारभेदाभ्युपगमे वाऽस्मन्मतप्रवेशेन सर्वैव व्यवस्थाऽस्ति। कथमव्यवस्थितं जगदभ्युपगम्यते भवद्भिः?" इत्युक्तं, तदेतत्परिवर्त्य क्षौमपरिधानमित्युच्यते, अस्मन्मते प्रकारभेदद्योतकस्यात्कारलाञ्छितप्रयोगेन सिद्धसाधनात्, अनेकान्तानुविद्धैकान्तगर्भत्वेनानेकान्तादेव व्यवस्थोपपत्तेश्च। तदुक्तं कार्तिकेयानुप्रेक्षायाम् "जं वत्थु अणेयन्तं एयंतं तं पि होदि सविवेक्खं । सुयणाणेण णएहि य निरवेक्खं दीसदे णेव ।। (का अनु.श्लो. २६१) - एतेन "स्थाणा पुरुषो वेति ज्ञानवत सप्तत्व-पञ्चत्वनिर्धारणस्य फलस्य निर्धारयितुश्च प्रमातुस्तत्करणस्य प्रमाणस्य च तत्प्रमेयस्य च सप्तत्व-पञ्चत्वस्य सदसत्त्वसंशये साधु समर्थितं तीर्थकरत्वमृषभेणात्मनः निर्धारणस्य चैकान्तसत्त्वे सर्वत्र नानेकान्तवाद इति भामतीकारवचनं प्रत्युक्तम्, जीवादिपदार्थेषु सप्तत्वस्यास्तिकायेषु च पञ्चत्वस्य निर्धारणे स्वविषयापेक्षया सत्त्वस्याऽभ्युपगमेन अनेकान्तवादभङ्गाभावात् । तदुक्तं वादमहार्णवे - "अनेकान्तस्याऽपि स्यात्कारलाञ्छनैकान्तगर्भस्यानेकान्तस्वभावत्वात्। न चानवस्था, अन्यनिरपेक्षस्वस्वरूपत एव तथात्वोपपत्तेः । यद्वा स्वरूपत एवानेकान्तस्यैकान्तप्रतिषेधेनाऽनेकान्तरूपत्वात् स्यादेकान्तः स्यादनेकान्तः इति कथं नानेकान्तेऽप्यनेकान्तोऽपि?" (सम्म.त.का. ३/श्लो. २७ वृत्ति) ___ किञ्च "नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतः प्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञं" (मा.उप.१/पृ.५६) इति मांडूक्योपनिषद्वचनस्य 'विमुक्तश्च विमुच्यते' (कठोप. २/२/१) इति कठोपनिषद्वचनस्य, 'तदनुप्रविश्य सच्च त्यच्चाभवत्, निरुक्तञ्चानिरुक्तञ्च निलयनञ्चानिलयनञ्च विज्ञानञ्चाविज्ञानञ्च सत्यं चानृतं च सत्यमभवत्' (तै.उप.अ.६) इति तैत्तिरीयोपनिषद्वचनस्य, "अणोरणीयान् महतो महीयान्" (श्वे.उप.३/२०) इति श्वेताश्वतरोपनिषद्वचनस्य, "वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च म] चामृतं च स्थितं यच्च-सच्च-त्यच्च" (बृह.उप.२/३/१) इति बृहदारणयकोपनिषद्वचनस्य "नासदासीत् नो सद् आसीत् तदानी" (ऋ.सं.१० सूक्त १२९/१ इति) ऋग्सूत्रसंग्रहवचनस्य, "नैव चिन्त्यं नचाऽचिन्त्यमचिन्त्यं चिन्त्यमेव च" (ब्र.उप.६) इति ब्रह्मबिन्दूपनिषद्वचनस्य, "भावाऽभावविहीनोऽस्मि भासाहीनोऽस्मि भास्म्यहम्" (मै.उप.३/५) इति मैत्रेय्युपनिषद्वचनस्य, "दिवा न पूजयेद् विष्णुं रात्रौ नैव प्रपूजयेत् । सततं पूजयेद् विष्णुं दिवारानं प्रपूजयेद्" || (शां.उप.१/३८) इति शाण्डिल्योपनिषद्वचनस्य, "न सर्वं सर्वमेव च" (महोप. ५/४६) इति महोपनिषद्वचनस्य, "विद्धः सन् अविद्धो भवति उपतापी सन् अनुपतापी भवति" (छा.उप.८/४/ १) इति छान्दोग्योपनिषद्वचनस्य, "एकं सद् विप्रा बहुधा वदन्ति" (ऋ.वे.१/१६४/४६) इति ऋग्वेदवचनस्य, - १ देखिये भारतीयदर्शन (ब. उपा.) पृ. ११७, भारतीयदर्शन (राधा.) पृ. २७७ भारतीयचिंतनपरंपरा (दामो.) पृ. १३५ भारतीयदर्शन रूपरेखा (हिरि.) पृ. १६४।