________________
१३१
* भामतीकारप्रतिभायाः पलायनम् * पराक्रियते। यत्तु भेदाभेदकल्पे मिश्रेण नियमायुक्तत्वप्रदर्शनं कृतं तदसत् प्रमाणबाधितत्वात् । तथाहि दशरथपुत्र-लवणाकुशपित्रोः रामे सङ्करेऽपि दशरथनिरूपितपुत्रत्व-लवणाकुशनिरूपितपितृत्वे परस्परं न सङ्कीर्येते, अन्यथा दशरथनिरूपितपितृत्वादिकमपि रामे स्यात् । न हि रामे दशरथजन्यत्वापेक्षया पुत्रत्वं यावद् भवति तावद् लवणाकुशजनकत्वापेक्षया पुत्रत्वं भवति। तदुक्तं शास्त्रदीपिकायां पार्थसारमिश्रेण 'सर्वेष्वपि वस्तष 'इयमपि गौरियमपि गौः' अयमपि वृक्षोऽयमपि' इति व्यावृत्तानुवृत्ताकारं प्रत्यक्षं देशकालावस्थान्तरेष्वविपर्यस्तमुदीयमानं सर्वमेव कृताभासं विजित्य द्वयाकारं वस्तु व्यवस्थापयत् केनाऽन्येन शक्यते बाधितुम्? न हि ततोऽन्यद् बलवत्तरमस्ति प्रमाणं तन्मूलत्वात् सर्वप्रमाणानाम्' (शा.दी.पृ. ३८७) इति।
एतेन - ‘सत्स्वभावं चेद् विकारजातं कथं कदाचिदसत्? असत्स्वभावं चेत्? कथं कदाचित् सत्? सदसतोरेकत्वविरोधात् । न हि रूपं कदाचित् कथञ्चित् वा गन्धो भवति । अथ तस्य सदसत्त्वे धर्मी ते च स्वकारणाधीनजन्मतया कदाचिदेव भवतः तत्तर्हि विकारजातं दण्डायमानं सदातनमिति न विकारः कस्यचित् । अथाऽसत्त्वसमये तन्नास्ति । कस्य तर्हि धर्मोऽसत्त्वम्? न हि धर्मिण्यप्रत्युत्पन्ने तद्धर्मोऽसत्त्वं प्रत्युत्पन्नमुपपद्यते। अथाऽस्य न धर्मः किन्तु अर्थान्तरमसत्त्वम्। किमायातं भावस्य? न हि घटे जाते पटस्य किञ्चिद् भवति । असत्त्वं भावविरोधीति चेत्? न, अकिञ्चित्करस्य तत्त्वानुपपत्तेः । किञ्चित्करत्वे वा तत्राऽपि असत्त्वे तदनुयोगसम्भवात्। अथाऽस्याऽसत्त्वं नाम न किञ्चिन्न जायते किन्तु स एव न भवति । यथाहुः 'न तस्य किञ्चिद् भवति न भवत्येव केवलम् । इति । अथैष प्रसज्यप्रतिषेधो निरुच्यतां, किं तत्स्वभावोऽभाव उत भावस्वभावः स इति? तत्र पूर्वस्मिन् कल्पे भावानां तत्स्वभावतया तुच्छतया जगच्छून्यं प्रसज्येत। तथा च भावानुभावाभावः। उत्तरस्मिंस्तु सर्वभावनित्यतया नाभावव्यवहारः स्यात् । कल्पनामात्रनिमित्तत्वेऽपि निषेधस्य भावनित्यताऽऽपत्तिस्तदवस्थैव । तस्माद् भिन्नमस्ति कारणाद् विकारजातं न वस्तुसत् । अतो विकारजातमनिर्वचनीयमनृतम' । (ब्र.सू. २/१/१४ भा.) इत्यपि भामतीकारवचनं प्रत्युक्तम, यतः स्वद्रव्यादिकं हि निमित्तमपेक्ष्य भावप्रत्ययं अर्थः जनयति परद्रव्यादिकं चाभावप्रत्ययम् इति एकत्व-द्वित्वादिसङ्ख्यावत् एकत्रवस्तुनि भावाभावयोः भेदः। न हि एकत्र द्रव्ये द्रव्यान्तरमपेक्ष्य द्वित्वादिसङ्ख्या प्रकाशमाना स्वात्ममात्रापेक्ष्येकत्वसङ्ख्यातः अन्या न प्रतीयते। नाऽपि एकत्व-द्वित्वादिरूपोभयसङ्ख्या तद्वतो भिन्नैव द्रव्यस्य असङ्ख्येयत्वप्रसङ्गात्। तस्मात् सिद्धः अपेक्षणीयभेदात् सङ्ख्यावत् सत्त्वासत्त्वयोभेदः। भिन्नयोश्च तयोरेकवस्तुनि प्रतीयमानत्वात् को नाम विरोधः। तदुक्त तेनैव तत्त्ववैशारद्यां 'अनुभव एव हि धर्मिणो धर्मादीनां भेदाभेदौ व्यवस्थापयति। न बैकान्तिकेऽभेदे धर्मादीनां धर्मिणो धर्मिरूपवद् धर्मादित्वम्। नाऽप्यैकान्तिके भेदे गवाश्ववद् धर्मादित्वम्। स चाऽनुभवोऽनैकान्तिकत्वमवस्थापयन्नपि धर्मादिषूपजनाऽऽयधर्मकेष्वपि धर्मिणमेकमनुगमयन धर्मांश्च परस्परतो व्यावर्तयन् प्रत्यात्ममनुभूयते इति । तदनुसारिणो वयं न तमतिवर्त्य स्वेच्छया व्यवस्थापयितुमीश्महे ( ) इति। केन हि शक्यतेऽनेकान्तवादप्रतिक्षेपः कर्तुम्?
अत एव - "सत्त्वासत्त्वे भावधर्मावित्यभ्युपगमे विकारनित्यत्वापातः इति यो दोष उक्तः सत्त्वमेकमेव भावधर्मो न कदापि भावस्थाऽसत्त्वमित्यभ्यपगमेऽपि तल्या असत्त्वमर्थान्तरम न चासत्त्वान्तरकरमित्यभ्युपगमे त्वसन घटः इति सामानाधिकरण्यानुपपत्तिः । न हि सत्त्वासत्त्व-गोत्वाश्वत्वादीनां स्वभावादेव परस्परविरोधसद्भावेऽपि सदसद्गौरश्व इत्यादि सामानाधिकरण्यमस्ति । न चासन् घट इति सामानाधिकरण्यं अभावप्रतियोगी घट इत्यर्थकमिति वाच्यम् तथा सति प्रतियोगित्वधर्माश्रयतया विकारसत्त्वापातात् (ब्र.सू. २/१/१४ - क.प.पृ. ४५६) इति अप्पयदीक्षितस्य कल्पतरुकारस्य वचनं प्रत्युक्तम् यथैकस्यैव पुरुषस्यापेक्षावशात् पितृत्व-पुत्रत्व-गुरुत्व-शिष्यत्वादीनि परस्परविरुद्धान्यपि युगपदविरुद्धानि तथा सत्त्वासत्त्वादीनि अपि। न चैवं सामानाधिकरण्यविरोध इति वाच्यम् जनकस्य पुत्रो रामो लवणांकुशयोः पितेत्यादाविव पटत्वादिनाऽसन् घटः घटत्वाद्यपेक्षया सन्नित्यत्राऽपि सामानाधिकरण्योपपत्तेः अपेक्षा