________________
गुरुतत्त्वसिद्धिः
व्याख्या- 'गुरु' इति गुरुप्रत्याख्याना अनशनादितपः कारकाः, ग्लाना रोगिणः, 'सेह 'त्ति नवदीक्षिताः 'बाला'त्ति लघुक्षुल्लकाः, एतैराकुलस्य भृतस्य गच्छस्य समुदायस्य न करोत्युपेक्षते वैयावृत्त्यादि स्वयं नैव पृच्छति परं ज्ञातारमहं करोमीति 'निद्धम्मो' इति धर्मरहितः सन् लिंगस्य वेषमात्रस्योपजीवी उपजीवकः लिङ्गेनाजीविकाकारीत्यर्थः ।। ३७८ ।।
पहगमणवसहिआहार- सुयणथंडिल्लविहपरिट्ठवणं ।
नायर नेय जाणइ, अज्जावट्टावणं चेव ।। ३७९।।
व्याख्या- 'पहगमण' इति पथि मार्गे गमनं, 'वसहित्ति उपाश्रयः स्थित्यर्थं, आहारशब्देनाहारग्रहणं शयनं, थण्डिल्शब्देन स्थण्डिलशोधनं, एतेषां पदानां यो विधिस्तं, 'परिट्ठवणं 'ति अशुद्धभक्तादीनां परिष्ठापनं त्यजनं, एतत्सर्वं जानन्नपि निर्द्धर्मतया नाद्रियते, अथवा नैव जानाति, अज्जाशब्देन साध्वी, तस्याः 'वट्टावणं' इति लोकभाषया 'वर्त्ताववुं' तदपि न जानाति 'चेव' इति निश्चयेन || ३७९।।
सच्छंदगमणउट्ठाण, सोयणो अप्पणेण चरणेण ।
२०८
समणगुणमुक्कजोगी, बहुजीवखयंकरो भमइ || ३८० ।।
व्याख्या- 'सच्छंद इति' स्वेच्छया गमनमुत्थानमूर्ध्वोभवनं 'सोअणो 'त्ति शयनं यस्यैतादृशः, 'अप्पणेण 'त्ति आत्मना कल्पितेनाचरणेनाचारेण गच्छति, श्रमणगुणा ज्ञानादयस्तेषां मुक्तो योगो व्यापारो येन सः, बहुजीवानां क्षयङ्करो विनाशकरः एतादृशो भ्रमति ।। ३८० ।।
afreव्व वायपुन्नो, परिब्भमइ जिणमयं अयाणंतो ।
थद्धो निव्विन्नाणो, न य पिच्छइ किंचि अप्पसमं ।। ३८१ ।।
व्याख्या–'बच्छि'त्ति बस्तिरिव वायुपूर्णः, यथा वायुपूर्णो बस्तिर्दृतिरुत्फुल्लो दृश्यते, तथा गर्वेण भृतः सन् परिभ्रमणं करोति, जिनानां मतं रागादिरोगौषधमजानन् सन् स्तब्धोऽनम्रः सन् निर्विज्ञानो ज्ञानरहितो न च प्रेक्षते किञ्चिल्लवलेशमपि आत्मना समं तुल्यं, एतावता सर्वानपि तृणसमानो गणयतीत्यर्थः ।।३८१ ।।
सच्छंदगमणउट्ठाणसोयणो, भुंजए गिहीणं च ।
पासत्थाई ठाणा, हवंति एमाइया एए | | ३८२ । । इत्यादि ।।
व्याख्या–‘सच्छंद' इति स्वेच्छया गमनोत्थानशयनः अस्य विशेषणस्य पुनरुपादानं गुर्वाज्ञां विना गुणप्राप्तिर्न भवतीति ख्यापनार्थं च पुनः 'भुंजइ'त्ति भोजनं करोति गृहस्थानां मध्ये, पार्श्वस्थादीनां स्थानकानि, एते पूर्वोक्तानि पार्श्वस्थादीनां लक्षणानि भवन्तीत्यर्थः ।। ३८२।।
(३३) पृ. १०१ पं. १६
܀܀܀
( उपदेशमाला हेयोपादेया टीका)
शेषाणां का वार्त्तेत्यत आह
सेसा मिच्छद्दिट्ठी, गिहिलिंगकुलिंगदव्वलिंगेहिं ।
ae aa 3 मोक्खपहा, संसारपहा तहा तिण्णि । । ५२० ।।