________________
परिशिष्ट-१
२०७ सौख्ये गुरुरेव गुरुकोऽल्लम्पट इत्यर्थः, क्व विहरति ? संयमविकलेषु सुसाधुभिरनधिवासितेषु क्षेत्रेषु ।।३७२।।
उग्गाइ गाइ हसइ य, असंवुडो सइ करेइ कंदप्पं । गिहिकज्जचिंतगो वि य, ओसन्ने देइ गिण्हइ वा ॥३७३।।
व्याख्या-'उग्गाइत्ति उग्रतया महता शब्देन 'गाइ'त्ति गायति, 'हसइत्ति हसति, असंवृतो विकसितमुखः, 'सया' इति सदैव 'कंदप्पं' इति कन्दर्पोद्दीपको प्रवृत्तिं करोति, अपि चेति समुच्चये, गृहिकार्यचिन्तकः, अवसन्नाय ददाति वस्त्रादि, गृह्णाति च तस्मात् ।।३७३।।
धम्मकहाओ अहिज्जइ, घराघरि भमइ परिकहंतो य । गणणाइपमाणेण य, अइरित्तं वहइ उवगरणं ॥३७४।।
व्याख्या-'धम्मकहाओ'त्ति धर्मकथा अधीते भणति, जनचित्तरञ्जनार्थमित्यर्थः, च पुनः परिकथयन् धर्मकथां कथयन् गृहाद्गृहं भ्रमति गच्छति, गणनया साधूनां चतुर्दशसंख्यायाः साध्वीनां च पञ्चविंशतिसङ्ख्याया उपकरणानि, प्रमाणेन यादृशं कल्पते चोलपट्टकादीनां मानं तस्मादतिरिक्तमधिकं संख्यया प्रमाणेन चोपकरणं वहति धारयति ।।३७४।।
बारस बारस तिनि य, काइयउच्चारकालभूमीओ । अंतो बहिं च अहियासि, अणहियासे न पडिलेहे ॥३७५।।
व्याख्या- 'बारस' इति द्वादशसङ्ख्याः 'काइय'त्ति लघुनीतियोग्याः स्थण्डिलभूमयः 'तिनियत्ति तिस्त्र उच्चारकालग्रहणयोग्याः स्थण्डिलभूमयः, एवं सर्वा अपि सप्तविंशतिसङ्ख्याः स्थण्डिलभूमयः, उपाश्रयस्यान्तर्मध्येऽथ बहिश्च 'अहियासित्ति यद्यध्यासितुं शक्यन्ते तदा दूरे योग्याः, 'अणहियासे'त्ति ईक्षितुं न शक्यते सा योग्या समीपवर्तिनी एतादृशी भूमिकां न प्रतिलेखति नावलोकयति ।।३७५।।
गीयत्थं संविग्गं, आयरियं मुयइ चलइ गच्छस्स । गुरुणो य अणापुच्छा, जं किंची देइ गिण्हइ वा ॥३७६॥
व्याख्या-'गीयत्थं' इति गीतार्थं सूत्रज्ञातारं 'संविग्गं'त्ति मोक्षाभिलाषिणं, एतादृशं 'आयरियं'ति स्वकीयं धर्माचार्य 'मुअईत्ति मुञ्चति निःकारणं त्यजति, 'वलइत्ति वलति सन्मुखमुत्तरं ददाति, 'गच्छस्स'त्ति समुदायस्य शिक्षां ददतः सन्मुखं वदतीत्यर्थः, गुरूननापृच्छ्य गुर्वाज्ञां विनेत्यर्थः, यत्किञ्चिद्वस्तु वस्त्रादि ददाति परस्मै, वाऽथवा गृह्णाति स्वयं परस्मात् ।।३७६।।
गुरुपरिभोगं भुंजइ, सिज्जासंथारउवगरणजायं । किं ति य तुमं, ति भासइ अविणीओ गविओ लुद्धो ॥३७७।।
व्याख्या-'गुरु' इति गुरुपरिभोग्यं गुरूणां परिभोग्यं भोक्तुं योग्यं स्वयं भुनक्ति, शय्या शयनभूमिः संस्तारकस्तृणादिमयः, उपकरणानि कल्पककम्बलप्रमुखाणि, तेषां जातः समुदायस्तं, गुरुभिर्भाषितः सन् "कित्तियतुमति किं त्वमिति तुंकारेण भाषते, न तु भगवन् इति बहुमानपूर्वकं अविनीतः सन् गर्वितः सन् ‘लुब्ध' इति विषयादिषु लम्पटः सन् एवं भाषते इत्यर्थः ।।३७७।।
गुरुपच्चक्खाणगिलाण, सेहबालाउलस्स गच्छस्स । न करेइ नेव पुच्छइ, निद्धम्मो लिंगउवजीवी ।।३७८।।