________________
गुरुतत्त्वसिद्धिः
उच्चारे पासवणे, खेले सिंघाणए अणाउत्तो ।
संथारगउवहीणं, पडिक्कमइ वा सपाउरो || ३६७।।
व्याख्या- 'उच्चारे' इति उच्चारो मलस्तत्र, प्रस्रवणं मूत्रं तत्र तत्परिष्ठापने इत्यर्थः, खेलशब्देन श्लेष्म तत्र 'सिंघाणए 'त्ति नासिकामलेऽनायुक्तोऽवसावधानः, अयतनया तत्परिष्ठापक इत्यर्थः संस्तारकस्योपरि स्थित एव प्रतिक्रमणं करोति कीदृशः ? वासो वस्त्रं तस्य प्रावरणं प्रकर्षेण वेष्टनं, तेन सह वर्त्तमानः, अथवा स इति भिन्नं पदं वा अथवेत्यर्थः, संप्रावरण इति विशेषणम् । । ३६७ ।।
न करेइ पहे जयणं, तलियाणं तह करेइ परिभोगं ।
ers अणुबद्धवासे, सपक्खपरक्खओ माणे || ३६८ ।।
व्याख्या- 'न करेइ' इति न करोति पथि मार्गे यतनां 'तलियाणं'ति पादतलरक्षकाणां पादत्रणभेदानां परिभोगमुपभोगं करोति, चरति गच्छति 'अणुबद्धवासे' वर्षाकालेऽपि विहारं करोति, स्वपक्षाणां साधूनां मध्ये परपक्षाणामन्यदर्शनिनां मध्येऽपमाने सति अयोग्यं विचारयतीत्यर्थः ।। ३६८ ।।
२०६
संजोयइ अइबहुयं, इंगाल सधूमगं अट्ठाए ।
भुंजइ रूवबलट्ठा, न धरेइ य पायपुंछणयं । । ३६९ ।।
व्याख्या- 'संजोअइ' इति संयोजयति भिन्नभिन्नस्थितानां द्रव्याणां आस्वादार्थं संयोगं करोतीत्यर्थः, अतिबहुकं भुङ्क्ते इंगालशब्देन समीचीनं भक्तादि रागबुद्ध्या जेमति, 'सधूमगं' इति अनिष्टभक्तादिमुखविकारेण जेमति, 'अणट्ठाए' इति क्षुधावेदनीय - वैयावृत्त्यादिकारणं विना 'भुंजइति भोजनं करोति, किमर्थं ? रूपबलनिमित्तं इति 'न धरेइत्ति न धारयति च पादप्रोञ्छनकम् ।। ३६९ ।।
अट्ठमछट्टचउत्थं, संवच्छरचाउमासपक्खे ।
न करेइ, सायबहुलो, न य विहरइ मासकप्पेणं । । ३७० ।।
व्याख्या- 'अट्टम' इति अष्टमं तपः षष्ठं तपश्चतुर्थं तपश्च न करोति, कस्मिन् कस्मिन् दिने ? तदाह - सांवत्सरिके पर्वणि अष्टमं चातुर्मासिके षष्ठं, पक्षे पक्षदिवसे चतुर्दशीदिने चतुर्थं तपो न करोति, कीदृशः सन् ? सातेन बहुलः सुखशीलः सन्, न च विहरति विहारं न करोति, मासकल्पेन मासकल्पमर्यादया शेषकाले सत्यपि क्षेत्रे इत्यर्थः । । ३७० ।।
नीयं गिves पिंडं, एगागी अच्छए गिहत्थकहो ।
पावसुयाणि अहिज्जइ, अहिगारो लोगगहणम्मि ।। ३७१ ।।
व्याख्या- 'नीयं' इति नित्यमेतस्मिन् गृहे एतेवान् ग्राह्य इति नियतिपूर्वकं पिण्डं गृह्णाति, एकाकी 'अच्छए' इति तिष्ठति, समुदाये न तिष्ठति, गृहस्थानां कथाप्रवृत्तेर्यत्र तां गृहिप्रवृत्तिं करोति, पापश्रुतानि ज्योतिर्वेदकानि 'अहिज्ज' इति अधीते पठति, अधिकारं करोति, लोकशब्देन लोकानां मनांसि तेषां ग्रहणे रंजने वशीकरणे इति यावत् ।। ३७१ ।।
परिभवइ उग्गकारी, सुद्धं मग्गं निगूहए बालो ।
विहरइ सायागरुओ, संजमविगलेसु खित्तेसु || ३७२ ।।
व्याख्या- 'परिभवइत्ति पराभवति, कान् ? उग्रकारिण उग्रविहारिणामुपद्रवं करोतीत्यर्थः, शुद्धं निर्दूषणं 'मग्गं'ति मोक्षमार्गं निगूहयत्याच्छादयति बालो मूर्खः, 'विहरइ'त्ति विचरति 'सायागुरुओत्ति साते