________________
परिशिष्ट-१
१६९
भणियं-विज्जाबलेण, णिवेइओ एस वुत्तंतो सेणियस्स, भणिओ य तेण मायंगो जइ परं विज्जं देसि तओ भे मोक्खो न अन्नहा, 'एवं' ति पडिवन्नो सीहासणट्ठिओ सेणिओ पढिउमाढत्तो, न ठाइ, तओ रुद्रुण तज्जिओ राइणा मायंगो, अभएण भणिओ न अविणएण विज्जाओ ठायंति ता मायंगं सीहासणे ठवेऊण सयं भूमीए चिट्ठसु तहा कयं संकंता सेणियस्स विज्जा । एवं अण्णेणावि विणएण सुयं गहियव्वं । श्रेणिकाख्यानकं गतम् ।।२६६।।
(१७/२) पृ. ४८ पं. २४
(उपदेशमाला टीका) सुगइमग्गपईवं, नाणं दितस्स हुज्ज किमदेयं ? । जह तं पुलिंदएणं, दिन्नं सिवगस्स नियगच्छिं ॥२६५ ।। इति ।
व्याख्या-'सुगइ' इति सद्गतिर्मोक्षरूपा तस्या मार्गः पन्थास्तत्प्रकाशनेन प्रदीपं दीपसदृशमेतादृशं ज्ञानं, ज्ञायते परिच्छिद्यते वस्त्वनेनेति ज्ञानं, अत्र श्रुतज्ञानं ग्राह्यम्, तद्ददतां ज्ञानमर्पयता, 'हुज्ज' इति भवेत् किमदेयम् ? एतावता यदि ज्ञानदाता जीवितं मार्गयति तदा सुशिष्येण तदपि देयमित्यर्थः ।।२६५ ।।
(१८) पृ. ५० पं. ७
(उपदेशमाला) उत्सूत्राचरणरताश्च पार्श्वस्थादयो भवन्ति तन्मध्ये सुसाधुना न स्थेयम् यतस्तत्र तिष्ठन्जइ गिण्हइ वयलोवो, अहव न गिण्हइ सरीरवोच्छेओ । पासत्थसंगमो वि य, वयलोवो, तो वरमसंगो ॥२२२॥
'जइ' गाहा, यदि गृह्णाति तत्संबंध्यशनवस्त्रादीति गम्यते, ततो व्रतलोपः आधाकर्मादिदोषदुष्टत्वादागमनिषिद्धत्वाच्चाथवा न गृह्णाति ततः शरीरव्यवच्छेदः, आहाराद्यभावे तत्पातान केवलं तत् सम्बन्धिवस्त्रादिग्रहणं, किं तर्हि ? पार्श्वस्थसङ्क्रमोऽपि च तन्मध्यस्थानलक्षणो व्रतलोपो भगवदाज्ञाभङ्गरूपत्वाद् 'असंकिलिटेहिं समं वसेज्जा, मुणी चरित्तस्स जओ न हाणी' इति वचनात् । ततो वरं श्रेयस्करोऽसङ्गस्तैः सहादित एवामीलक इति ।।२२२।।
किञ्चआलावो संवासो, वीसंभो संथवो पसंगो य । हीणायारेहि समं, सव्वजिणिंदेहिं पडिकुट्ठो ।।२२३।।
'आलावो' गाहा, आलापो वचनैः 'संवास एकोपाश्रये, विश्रम्भश्चित्तमीलकः, संस्तवः परिचयः, प्रसङ्गश्च वस्त्रादिदानग्रहणव्यवहारः, किं? हीनाचारैः पार्श्वस्थादिभिः समं सह, सर्वजिनेन्द्रैः ऋषभादिभिः प्रतिकुष्टः प्रतिषिद्ध इति ।।२२३।।
स्यात् तत्र वसतः को दोष इत्यत आहअनोनजंपिएहि, हसिउद्धसिएहिं खिप्पमाणो उ । पासत्थमज्झयारे, बला वि जई वाउलीहोइ ।।२२४।।