________________
१७०
गुरुतत्त्वसिद्धिः
'अन्नोन्न०' गाहा, अन्योन्यजल्पितैर्विकथासम्बद्धपरस्परसम्भाषणैर्हसितोद्धुषितैर्हर्षोद्रेकजनितैर्हास्यरोमाञ्चैः, क्षिप्यमाणो धर्मध्यानात्प्रेर्य्यमाणः पार्श्वस्थमध्यकार इति पार्श्वे ज्ञानादीनां तिष्ठन्तीति पार्श्वस्था इति सामान्यव्युत्पत्त्याऽवमग्नादीनामपि ग्रहणात् पार्श्वस्थादिमध्य इत्यर्थः । बलात् कुसंसर्गसार्मथ्याद् यतिः साधुर्व्याकुलीभवति । स्वधर्मस्थैर्यात् च्याव्यत इत्यर्थः । । २२४ ।।
तदेष तावत् तन्मध्यगतस्य दोषोऽभ्यधायि यस्तु सुसाधुमध्येऽपि तिष्ठन् मन्दपरिणामतया तत्संसर्ग विदध्यात्तमधिकृत्याह
लोए वि कुसंसग्गी-पियं जणं दुन्नियच्छमइवसणं ।
निंदs निरुज्जमं पिय- कुसीलजणमेव साहुजणो ।। २२५ ।।
'लोए वि' गाहा, एकारान्तस्य प्राकृते प्रथमान्तत्वाल्लोकोऽपि कुसंसर्गिप्रियं इष्टकुशीलकं जनं 'दुन्नियच्छं 'ति देशीभाषया दुष्परिहितं षिड्गवेषमिति यावद्, अतिव्यसनिनं द्यूतादिव्यसनाभिभूतं निन्दति जुगुप्सते, तथा निरुद्यमं सुसाधुमध्यस्थितमपि शिथिलं, प्रियो वल्लभः कुशीलजनः पार्श्वस्थादिलोको यस्य स तथा, तमेवं साधुजनोऽनुस्वारलोपाद्यथा लोकस्तथा निन्दतीति ।। २२५ ।। स च कदाचित् दुष्टपरिणामो अकार्यमपि कुर्यात्ततश्चनिच्चं संकियभीओ, गम्मो सव्वस्स खलियचारित्तो ।
साहुजणस्स अवमओ, मओ वि पुण दुग्गइं जाई ।। २२६ ।।
'निच्चं' गाहा, नित्यं सदा शङ्कितश्चासौ जल्पांतरेऽपि मदीयमिदं जल्पत इत्युत्त्रासाद् भीतश्च गच्छतो निष्कासनादेः शङ्कितभीतो, गम्योऽभिभवनीयः, सर्वस्य बालादेरपि स्खलितचारित्रः खण्डितशीलः, साधुजनस्यावसतोऽनभिमत इह लोके, मृतोऽपि पुनर्दुर्गतिं नरकादिकां याति, पुनः शब्दादनन्तसंसारी च सम्पद्यत इति ।। २२६ ।।
कुसंसर्गदोष एव दृष्टान्तमाह
गिरिसुयपुप्फसुआणं, सुविहिय ! आहरणकारणविहन्नू ।
वज्जेज्ज सीलविगले, उज्जुयसीले हवेज्ज जई ।।२२७ ।।
'गिरिसुय पुप्फसुय गाहा,' अत्र कथानकं- कादम्बर्यामटव्यामेकस्मिन्यग्रोधतरुकोटरे द्वौ शुकौ सहोदरी जज्ञाते, तत्रैको म्लेच्छैः स्वगृहं नीतः, स च पर्वतपल्लीसंवर्धितत्वाद्गिरिशुक इत्युच्यते, स च तत्सांगत्यवशात्क्रूराध्यवसायो जातः अन्यस्तु कुसुमसमृद्धतापसाश्रमवर्धितत्वात्पुष्पशुक इति । अन्यदा विपरीतशिक्षिताश्वापहृतो वसंतपुरादगमत्तत्र राजा, तं दृष्ट्वा धावत गृहणीत सतुरङ्गमं मनुष्यमिति तस्करप्रोत्साहनाय रारट्यमानं गिरिशुकमाकर्णयनतिक्रम्य गतो तापसाश्रमं तदवलोकनात्पुष्पशुको ऽतिखिन्नोऽतिथिरागच्छति ददध्वमासनं कुरुतातिथेयमिति तापसकुमारकान् प्रोत्साहितवान् सम्पादिते तैर्निर्वर्तिते च भोजने विगतखेदो नृपतिगिरिशुकवृत्तान्तं निवेद्य तस्मै किमेकजातीययोर्भवतोरेतावदन्तरमिति तं पप्रच्छ । सोऽवोचत् संसर्गजा दोषगुणाः, तथाहि
माताप्येका पिताप्येको, मम तस्य च पक्षिणः । अहं मुनिभिरानीतः, स च नीतो गवाशनैः ।।१।।