________________
परिशिष्ट-१
१६७ ___'सोग्गइ' गाहा, सुगतिमार्गप्रदीपं निर्वाणपथप्रकाशकं ज्ञानं ददते भवेत् किमदेयं न किञ्चिज्जीवितमपि तस्मै दीयत इत्यर्थः । दृष्टान्तमाह-यथा तत्पुलिन्दकेन दत्तं शिव एव शिवकस्तस्मै निजमेव निजकं तच्च तदक्षि च तदित्यत्र कथानकम् -
कश्चिद्धार्मिको गिरिकन्दरे व्यन्तराधिष्ठितां शिवप्रतिमामपूपुजत् । प्रतिदिनं पार्श्वतः क्षिप्तां पूजाम् अवलोक्य मत्पूजाविनाशकं पुरुषमद्याहं वीक्षे, गृहीतवामकरकोदण्डः पुष्पव्यग्रदक्षिणकर उदकभृतगंडूषः पुलिंदकः समागत्य चरणेन पूजां प्रेर्य मुखविधृतजलगंडूषेण स्नपयित्वा परिपूज्य शिवं प्रणनाम । स तु हृष्टस्तेन साधु बहु जजल्प । गते तस्मिन् पुलिन्दे धार्मिकः शिवमुपालेभे यदुतानेनाऽशुचिनाऽधमेन सार्थं जल्पसि, न मया । शिवोऽवोचत् प्रातर्विशेषं द्रक्ष्यसि । द्वितीयेऽढ्युत्खातललाटलोचनं शिवं दृष्ट्वा बहु रटित्वा स्थितो धार्मिकः, पुलिंदकः पुनरागत्य मयि सलोचने कथं स्वामी निर्लोचन इत्युत्पाट्य स्वनयनं तत्र ददौ, शिवो धार्मिकं प्रत्याह एवमहं प्रसीदामि, न बाह्यपूजामात्रेणेति । एवं ज्ञानप्रदेऽप्यान्तरो बहुमानः कार्य इति दृष्टान्तः इति ।
अत्र कथानकम्-एगाए महाडवीए पच्चासन्ने गिरिकन्दरे वंतराहिट्ठिया सिवपडिमा अत्थि, तत्थ सुद्धगणो नाम धम्मिओ, सो तं पइदिणं संमज्जणोवलेवणधूवबलिपदीवाईहिं पूजेइ, बितियदिवसे अवणीयं तं पूयं पिच्छिऊण चिंतियं धम्मिएण-केणावणीया पूया ? तओ अनदिणे पच्छन्नेण निरिक्खियं जावागओ पुलिंदो वामकरण गहियधणुबाणो दाहिणेण पुण कुसुमनियरो तओ चरणेणं अवणेऊण धम्मियपूयं मुहधरियजलगण्डूसेण पहाविऊण विरइयपूयं सिवं पणमइ ।।
तओ पुलिंदएण सह सहरिसं जंपिउं पयत्तो, बिइयदिवसे उवालद्धो धम्मिएण-'मए परमसुइभएण पयत्तपूइओ वि ण तूससि, इमिणा पुण अच्चंताहमेण असुइणा विडंबणरूवेण अच्चिओ तेण सह समुल्लवसि ता जारिसो सो पुलिंदो तारिसो तुम पि कडपूयणो ।' सिवगेण भणियं-'कल्लमप्पणो पुलिंदस्स य विसेसं जाणहिसि ।' बिइयदिवसे गओ धम्मिओ न दिटुं तइयमच्छिं विसूरिऊण ठिओ धम्मिओ थेववेलाए चेव पत्तो पुलिंदो तओ तं विचक्टुं दटुं भत्तीए उप्पाडिऊण नियलोयणं दिन्नं सिवगस्स, भणिओ य तेण धम्मिओएवमहमंतरंगबहुमाणेण तोसिज्जामि, न बज्झपूयामित्तेण ।' एवं नाणदायगे वि अंतरो बहुमाणो कायव्वो एएण अंसेण दिटुंतो । पुलिंदकथोक्ता) ।।२६५।।
अन्यच्चसीहासणे निसन, सोवागं सेणिओ नरवरिंदो । विज्जं मग्गइ पयओ, इय साहुजणस्स सुयविणओ ।।२६६।।
'सीहासणे' गाहा, सिंहासने निषण्णमुपविष्टं श्वपाकं चाण्डालं श्रेणिको नरवरेन्द्रो विद्यां 'मग्गइ' त्ति प्रार्थयते प्रयतः सविनयम्, इत्येवं साधुजनस्य यतिलोकस्य श्रुतविनयः, साधुभिः श्रुतं गृह्णद्भिस्तथा विनयः कार्य इति भावः । कथानकमधुना-श्रेणिक-राजपत्न्याश्चेल्लणायाः समुत्पन्ने एकस्तंभप्रासाददोहदेऽभयाराधितदेवेन निर्मिते तस्मिन् सर्वर्तुकारामे तनिवासिनैव विद्यासिद्धमातङ्गेन सदोहदनिजभार्यानोदितेन विद्याबलाच्चोरितेषु तदानेषु बृहत्कुमारीकथानकव्याजेनाभयकुमारेणोपलब्धे तस्मिंस्तस्करे राजा तमुवाचविद्यां देहि मे, नास्त्यन्यथा भवतो मोक्षः, प्रतिपन्नमनेन, ततः सिंहविष्टरोपविष्ट एव राजा तां पपाठ । बहुशोऽभ्यस्यमानापि सा न तस्थौ, चुक्रोध स तस्मै, अभयेनोक्तं-राजन्नायं न्यायः, अयं हि भवतां गुरुवर्तते,