________________
१६६
गुरुतत्त्वसिद्धिः
-
संसक्ते संसक्तः, तथा प्रियधर्मसु मिलितः प्रियधर्मा । एष असङ्क्लिष्टः संसक्तो ज्ञातव्यः । सङ्क्लिष्टमाह
'पंचासवप्पवत्तो जो खलु तिहिं गारवेहिं पडिबद्धो ।
इत्थिगिहि संकिलिट्ठो संसत्तो सो उ नायव्वो ।।३।। '
व्याख्या - य खलु पञ्चसु आश्रवेसु हिंसादिषु प्रवृत्तः, तथा त्रिभिर्गारवैः - ऋद्धिरस-सातलक्षणैः प्रतिबद्धः । तथा स्त्रीषु गृहिषु प्रतिबद्धः स सक्लिष्टः संसक्तो ज्ञातव्यः । व्यावर्णितः संसक्तः । इदानीं
यथाछन्दमाह
'उस्सुत्तमायरंतो उस्सुत्तं चेव पन्त्रवेमाणो ।
एसो य अहाछन्दो इच्छाछन्दो य एगट्ठा ।।१।। '
व्याख्या- सूत्रादूर्ध्वमुत्सूत्रम् । तदाचरन् - प्रतिसेवमानः तदेव यः परेभ्यः प्रज्ञापयन् वर्त्तते । एष यथाछन्दोऽभिधीयते । इच्छाछन्द इत्येकार्थः । यथाछन्द इच्छाछन्दश्चेति तस्य नामद्वयं भवतीत्यर्थः । उत्सूत्रमित्युक्तमत उत्सूत्रं व्याख्यानयति
'उत्सुत्तमणुवइटुं सच्छन्दविगप्पियं अणुवाई |
परतत्तिपवत्तो तिंतिणो अ एसो अहाछन्दो ||२|| '
व्याख्या - उत्सूत्रं नाम यत्तीर्थकरादिभिरनुपदिष्टम् । तत्र या सूरिपरम्परागता सामाचारी । यथानागिला रजोहरणमूर्ध्वमुखं कृत्वा कायोत्सर्गं कुर्वन्ति । चारणानां वन्दनके 'कथमपी' त्युच्यते इत्यादि । साऽप्यङ्गोपाङ्गेषु नोपदिष्टेति तामप्यनुपदिष्टां शङ्केत । ततोऽनुपदिष्टमाह । स्वच्छन्देन - स्वाभिप्रायेण विकल्पितं स्वेच्छाकल्पितमित्यर्थः । अत एवाननुपाति - सिद्धान्तेन सहाघटमानकम् । न केवलमुत्सूत्रमाचरन् प्रज्ञापयँश्च यथाछन्दः । किन्तु यः परतप्तिषु - गृहस्थप्रयोजनेषु करणकारणानुमतिभिः प्रवृत्तः परतप्तिप्रवृत्तः । तथा तिन्तिणो नाम य स्वल्पेऽपि केनचित् साधुनाऽपराद्धेऽनवरतं पुनः पुनः झषन्नास्ते । अयमेवंरूपो यथाछन्दः । तथा -
'सच्छंदमइविगप्पिय किंची सुहसाय - विगइपडिबद्धो । तिहिं गारवेहिं मज्जइ तं जाणाही अहाछंद | | ३॥'
व्याख्या-स्वच्छन्दमतिविकल्पितं किञ्चित् तच्च लोकाय प्रज्ञापयति । ततः प्रज्ञापनगुणेन लोकाद् विकृतीर्लभते, ताश्च विकृतीः परिभुञ्जानः स्वसुखमासादयति । तेन स सुखास्वादनेन तत्रैव रतिमातिष्ठते । तथा चाह- 'सुहसाय' सुखास्वादे विकृतौ प्रतिबद्धः । तथा तेन स्वच्छन्दमतिविकल्पितप्रज्ञापनेन लोकपूज्यो भवति । अभीष्टरसाँश्चाहारान् प्रतिलभते वसत्यादिकं च विशिष्टं । ततः स आत्मनः सभ्येभ्यो बहुमन्यते । तथा चाह-त्रिभिर्गारवैः- ऋद्धिरससातलक्षणैर्माद्यति । य एवम्भूतस्तं यथाछन्दं जानीहीति । उक्तं यथाच्छन्दस्वरूपम् । ततः उक्तं पार्श्वस्थादीनां स्वरूपमित्यलं प्रसङ्गेनेति गाथार्थः ।। ६२ ।।
(१७/१) पृ. ४८ पं. २४
܀܀܀
(उपदेशमाला - हेयोपादेया टीका )
सोग्गइमग्गपईवं, नाणं दिंतस्स हुज्ज किमदेयं ? । जह तं पुलिंदणं, दिनं सिवगस्स नियगच्छिं ।। २६५ ।।