________________
१६५
परिशिष्ट-१ ____ व्याख्या-कौतुकं नाम आश्चर्यं । यथा मायाकारको मुखे गोलकान् प्रक्षिप्य कर्णेन निःकाशयति नासिकया वा । तथा मुखादग्निं निःकाशयतीत्यादि । अथवा परेषां सौभाग्यादिनिमित्तं यत् स्नपनादि क्रियते एतत्कौतुकम् । उक्तं च -
___ 'सोहग्गाइनिमित्तं परेसिं ण्हवणाइ कोउयं भणिय'मिति । तथा भूत्यादिकर्म नाम यत् ज्वरितादीनामभिमन्त्रितेन क्षारादिना रक्षाकरणम् । 'जरियाइभूइदाणं भूईकम्मं विणिहिटुं' इतिवचनात् । प्रश्नाप्रश्नं नाम यत् स्वप्नविद्यादिभिः शिष्टस्यान्येभ्यः कथनम् । उक्तं च -
'सुविणगविज्जाकहियं आइंखिणिघंटियाइकहिअं वा । जं सासइ अण्णेसिं पसिणापसिणं हवइ एअं ॥१॥'
निमित्तमतीतादिभावकथनम् । तथा आजीवो नाम आजीविका । स च जात्यादिभेदः सप्तप्रकारः । तदुक्तं -
'जाईकुले गणे अ कम्मे सिप्पे तवे सुए चेव । सत्तविहं आजीवं उवजीवइ जो कुसीलो उ ।।१।।
तत्र जात्यादयः प्रागुक्तस्वरूपाः । तपःश्रुते प्रतीते । एनं सप्तविधमाजीवं य उपजीवतिजीवनार्थमाश्रयते । तद्यथा-'जातिं कुलं वात्मीयं लोकेभ्यः कथयति, येन जातिपूज्यतया कुलपूज्यतया वा भक्तपानादिकं प्रभूतं लभेयमिति । अनयैव बुद्ध्या मल्लगणादिभ्यो-गणेभ्यो गणविद्याकुशलत्वं, कर्मशिल्पकुशलेभ्यः कर्म-शिल्पकौशलं कथयति । तपस उपजीवना-तपः कृत्वा क्षपकोऽहमिति जनेभ्यः कथयति । श्रुतस्योपजीवना-बहुश्रुतोऽहमिति जनेभ्यः कथयति ।' इति सप्तविध आजीवनाकुशलः । तथा कल्को नाम प्रसूत्यादिषु रोगेषु क्षारपातनमथवा आत्मनः शरीरस्य देशतः सर्वतो वा रोट्रादिभिरुद्वर्त्तनम् । तथा कुरुका-देशतः सर्वतो वा शरीरस्य प्रक्षालनम् । लक्षणं-पुरुषलक्षणादि, विद्यामन्त्री प्रसिद्धौ । आदिशब्दान्मूलकर्मचूर्णादिपरिग्रहः । एतानि य उपजीवति स चरणकुशीलो निरूपितः कुशीलः । अधुना संसक्तप्ररूपणामाह
'गोभत्तालंदा विव बहुरूअ नडुव्व एलगो चेव । संसत्तो सो दुविहो असंकिलिट्ठो य इयरो वा ॥१॥'
व्याख्या-गोभक्तयुक्तोऽलिन्दो गोभक्तालिन्दः । अलिन्दो भाजनविशेषः स इव । किमुक्तं भवतियथा अलिन्दो गोभक्तं-कुक्कुसा ओदनम्-अवश्रावणमित्यादिसर्वमेकत्र मिलितं भवतीति संसक्त उच्यते । एवं यः पार्श्वस्थादिषु मिलितः पार्श्वस्थसदृशो भवति, संविग्नेषु मिलितः संविग्नसदृशः संसक्त इति । यथा वा नटो रङ्गभूमौ प्रविष्टः कथानुसारतस्तत्तद्रूपं करोति । एवं बहुरूप नट इव सोऽपि पार्श्वस्थादिमिलितः पार्श्वस्थादिरूपं भजते, संविग्नमिलितः संविग्नरूपमिति । यदि वा यथा- एडको लाक्षारसे निमग्नः सन् लोहितवर्णो भवति, गुलिकाकुण्डनिमग्नः सन् नीलवर्ण इत्यादि । स च द्विविधोद्विप्रकारः । तद्यथा-असङ्क्लिष्ट इतरश्च सक्लिष्टः । तत्रासङ्क्लिष्टमाह -
'पासत्थ अहाछंदे कुशील ओसन्न पप्प एमेव । संसत्तो पियधम्मेसु चेव इणमो असंकिलिट्ठो ॥२॥' व्याख्या-पार्श्वस्थे मिलितः पार्श्वस्थः, यथाछन्दे यथाछन्दः, कुशीले कुशीलः, अवसन्नेऽवसन्नः,