________________
१६४
गुरुतत्त्वसिद्धिः
'ओसनो वि अ दुविहो सब्वे देसे य तत्थ सव्वंमि । उडुबद्धपीढफलगो ठविअगभोई य मुणेयव्यो ।।१।।'
व्याख्या-अवसन्नोऽपि च द्विविधो ज्ञातव्यो सर्वतो देशतश्च । तत्र सर्वतोऽवसनो य ऋतुबद्धपीठफलकः-ऋतुबद्धकालेऽपि वर्षाकालं विनैवेत्यर्थः पीठफलकसेवकः । 'अबद्धपीठफलगो' इति पाठे तु यः पक्षस्याभ्यन्तरे पीठफलकादीनां बन्धनानि मुक्त्वा प्रत्युपेक्षणं न करोति, यो वा नित्यावस्तृतसंस्तारकः सोऽबद्धपीठफलकः । तथा स्थापितकभोजीस्थापनादोषदुष्टप्राभृतिकाभोजी । देशावसनमाह -
'आवस्सय-सज्झाए पडिहण-झाण-भिक्ख अभत्तढे । आगमणे निग्गमणे ठाणे अ निसीअणे तुयट्टे ।।२।।
व्याख्या-आवश्यकादिष्ववसीदन् देशतोऽवसन्न इत्योघतो गाथाक्षरयोजना । भावार्थस्त्वयंआवश्यकमनियतकालं करोति, यदि वा हीन-हीनकायोत्सर्गादिकरणात् । अतिरिक्तं वा अनुप्रेक्षार्थमधिकाधिककायोत्सर्गकरणात् । अथवा दैवसिके आवश्यके कर्त्तव्यं तद् रात्रिके करोति, रात्रिके कर्त्तव्यं दैवसिके । तथा स्वाध्यायं सूत्रपौरुषीलक्षणम् अर्थपौरुषीलक्षणं वा, कुरुथ्वमिति गुरुणोक्ते गुरुसंमुखीभूय किञ्चिदनिष्टं जल्पित्वा करोति न करोति वा, सर्वथा विपरीतं करोति कालिकवेलायाम् उत्कालिकमत्कालिकवेलायां कालिकं वा । तथा प्रतिलेखनामपि वस्त्रादीनामावर्त्तनादिभिरूनामतिरिक्तां वा विपरीतां वा दोषैर्वा संसक्तां करोति । तथा ध्यानं धर्मध्यानं शुक्लध्यानं वा यथाकालं न ध्यायति । तथा भिक्षां न हिण्डते । गुरुणा वा भिक्षां नियुक्तो गुरुसंमुखं किञ्चिदनिष्टं जल्पित्वा हिण्डते । तथा भक्तार्थ-भक्तविषयं प्रयोजनं सम्यग् न करोति । किमुक्तं भवति-न मण्डल्यां समुद्दिशति । काकशृगालादिभक्षितं वा करोति । अन्ये तु व्याचक्षते 'अभत्तट्ठत्ति । अभक्तार्थग्रहणं सकलप्रत्याख्यानोपलक्षणं । ततोऽयमर्थःप्रत्याख्यानं न करोति, गुरुणा वा भणितो गुरुसंमुखं किञ्चिदनिष्टमुक्त्वा करोति । आगमे नैषेधिकीं न करोति निर्गमने आवश्यकी च । स्थाने-ऊर्ध्वस्थाने निषीदने-उपवेशने त्वग्वर्त्तने-शयने एतेषु क्रियमाणेषु न प्रत्युपेक्षणां करोति । नापि प्रमार्जनां करोति । अथवा प्रत्युपेक्षणप्रमार्जने दोषदुष्टे करोति ।
गतोऽवसत्रः । साम्प्रतं कुशीलमाह - 'तिविहो होइ कुसीलो नाणे तह दंसणे चरित्ते य । एसो अवंदणिज्जो पण्णत्तो वीयरागेहिं ।।१।।'
व्याख्या-त्रिविधः-त्रिप्रकारो भवति कुशीलः । कथमित्याह-जाने तथा दर्शने चारित्रे च । एष कुशीलोऽवन्दनीयः प्रज्ञप्तो-भणितो वीतरागैः- तीर्थकृद्भिः । प्रकारत्रयमेवाह -
'नाणे नाणायारं जो उ विराहेइ कालमाईयं । दंसणे दंसणायारं चरणकुसीलो इमो होइ ।।२।।'
व्याख्या-यो ज्ञानाचारं कालादिकं 'काले विणए' इत्यादिरूपं विराधयति स ज्ञाने-ज्ञानकुशील उच्यते । यस्तु दर्शनाचारं निःशङ्कितत्वादिकं विराधयति स दर्शने-दर्शनकुशीलः । चरणकुशीलोऽयं वक्ष्यमाणलक्षणो भवति । तमेवाह -
'कोउअ भूईकम्मे पसिणापसिणे निमित्तमाजीवीं । कक्ककुरुयाइ लक्खण उवजीवइ विज्जमंताई ।।३।।'