SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - १ १६३ मूलोत्तरगुणानुपालनात्मकं दर्शन - ज्ञान - चारित्रम्, द्वन्द्वैकवद्भावः । एवं तपश्च- अनशनादि विनयश्चअभ्युत्थानादिः तपो - विनयम् । एतद् दर्शनादि 'यत्र' पार्श्वस्थादौ पुरुषे 'यावद्' यत्परिमाणं स्वल्पं बहु वा जानीयात् तत्र तमेव भावं जिनप्रज्ञप्तं स्वचेतसि व्यवस्थाप्य तावत्यैव 'भक्त्या' कृतिकर्मादिलक्षणया पूजयेत् ।।४५५३ ।। - *** (१६/३) पृ. ४५ पं. १५ अथ कारणे पार्श्वस्थादीनामवन्दनेऽपि श्राद्धानां प्रायश्चित्तं भवतीत्येतत्प्रतिपादयति “उप्पन्नकारणंमि किइकम्मं जो न कुज्ज दुविहं पि । पासत्थाईआणं उग्घाया तस्स चत्तारि ।।६२।। " (श्राद्धजितकल्पसूत्र ) - व्याख्या- श्रीसङ्घगच्छादिकार्येऽनन्यसाध्ये उत्पन्ने सति कृतिकर्म-वन्दनकं यः श्राद्धादिर्न कुर्यात् द्विविधमपि-अभ्युत्थानवन्दनकरूपं । केषां ? पार्श्वस्थादीनां पार्श्वस्थावसन्नकुशील-संसक्त-यथाछन्दानां किं तस्य प्रायश्चित्तम् ? इत्याह- 'उग्घाया तस्स चत्तारि 'त्ति । 'उग्घाया नाम जं संतरं दाणं लघुमित्यर्थ' इति निशीथचूर्णिवचनादुद्घाता लघवः तस्य श्राद्धस्य चत्वारः - चतुर्लघुप्रायश्चित्तं भवतीति भावार्थः । अत्र किञ्चित् पार्श्वस्थादीनां स्वरूपमावश्यकान्तर्गतवन्दननिर्युक्त्यादिगाथाभिः स्पष्टीक्रियते 'सो पासत्थो दुविहो देसे सव्वे अ होइ नायव्वो । सव्वंमि नाणदंसण चरणाणं जो उ पासंमि ।।१।। ' व्याख्या - स पार्श्वस्थो द्विविधो द्विप्रकारः । तद्यथा-देशे - देशतः सर्वस्मिन् सर्वतः । तत्राल्पवक्तव्यत्वात् सर्वत आह- 'सव्वंमी 'त्यादि । सर्वस्मिन् । एष सर्वतः पार्श्वस्थः उच्यते इत्यर्थः । क ? इत्याह-ज्ञानम्आभिनिबोधिकादि दर्शनं सम्यक्त्वं चारित्रम् - आश्रवनिरोधः । एतेषां यः पार्श्वे तटे वर्त्तत इति वाक्यशेषः । ज्ञानादिषु नान्तर्गत इत्यर्थः । देशतः पार्श्वस्थमाह - - 'देसंमि य पासत्थो सिज्जायरमिहडरायपिंडं वा । - नीयं च अग्गपिंडं भुंजइ निक्कारणं चेव ।।२ ।। ' व्याख्या- 'देसंमी 'ति । देश - एष देशतः पार्श्वस्थ उच्यते । क ? इत्याह-यः शय्यातराभ्याहृतराजपिण्डमग्रपिण्डं च भुङ्क्ते निष्कारणमेव । तथा 'कुलनिस्साए विहरइ ठवणकुलाणि अ अकारणे पविसइ । संखडिपलोयणाए गच्छइ तह संथवं कुणइ || ३ || ' व्याख्या - कुलनिश्रया विहरति, यानि कुलानि तस्याग्रे सम्यक्त्वं प्रतिपन्नानि तानि येषु ग्रामेषु नगरेषु वा वसन्ति तेषु गत्वा तेभ्य आहारादिकमुत्पादयतीत्यर्थः । तथा अकारणे - कारणाभावेऽपि स्थापनाकुलानि प्रविशन्ति । अथवा यानि लोके गर्हितानि कुलानि तानि स्थापितान्युच्यन्ते तेषामपरिभोग्यतया जिनैः स्थापितत्वात् । तेभ्य आहारादिकमुत्पादयति । तथा सङ्खड्याः सततमाहारलौल्यतः प्रलोकनाय गच्छति । तथा संस्तवं द्विविधं मातापित्रादिसम्बन्धयोजनारूपं पूर्वसंस्तवं श्वश्वादिनात्रकयोजनारूपं पश्चात्संस्तवं च करोति । उक्तः पार्श्वस्थः । साम्प्रतमवसन्नमाह
SR No.022195
Book TitleGurutattva Siddhi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherJingun Aradhak Trust
Publication Year2015
Total Pages260
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy