________________
परिशिष्ट-१
बहिरागमनपथादिषु दृष्टस्य पार्श्वस्थादेर्वाचा नमस्कारः क्रियते, 'वन्दामहे भवन्तं वयम्' इत्येवमुच्चार्यत इत्यर्थः । अथासौ विशिष्टतर उग्रतरस्वभावो वा ततो वाचा नमस्कृत्य 'हस्तोत्सेधम्' अञ्जलिं कुर्यात् । ततोऽपि विशिष्टतरेऽत्युग्रस्वभावे वा द्वावपि वाङ्नमस्कारहस्तोत्सेधौ कृत्वा तृतीयं शिरःप्रणामं करोति । एवमुत्तरोत्तरविशेषकरणे पुरुषकार्यभेदः प्राक्तनोपचारानुवृत्तिश्च द्रष्टव्या । 'संपुच्छणं ति पुरतः स्थित्वा भक्तिमिव दर्शयता शरीरवार्तायाः सम्प्रच्छनं कर्त्तव्यम्, कुशलं भवतां वर्तत इति । 'अच्छणं'ति शरीरवार्ता प्रश्नयित्वा क्षणमात्रं पर्युपासनम् । अथवा पुरुषविशेषं ज्ञात्वा तदीयं प्रतिश्रयमपि गत्वा छोभवन्दनं सम्पूर्ण वा वन्दनं दातव्यम् ।।४५४५।।
____ अथ किमर्थं प्रथमतो वाचैव नमस्कारः क्रियते ? कारणाभावे वा किमिति मूलत एव कृतिकर्म न क्रियते ? इत्याशङ्क्याह
जइ नाम सूइओ मि, त्ति वज्जितो वा वि परिहरति कोयी । इति वि हु सुहसीलजणो, परिहज्जो अणुमती मा सा ॥४५४६॥
यदि नाम कश्चित् पार्श्वस्थादिर्वाङ्नमस्कारमात्रकरणेन अहो ! 'सूचितः' तिरस्कृतोऽहममुना भङ्ग्यन्तरेणेति, सर्वथा कृतिकर्माकरणेन वा 'वर्जितः' परित्यक्तोऽहममीभिरिति पराभवं मन्यमानः सुखशीलविहारितां परिहरति । 'इय' एवंविधमपि कारणमवलम्ब्य परिहार्यः कृतिकर्मणि सुखशीलजनः, न केवलं पूर्वोक्तं दोषजालमाश्रित्येत्यपिशब्दार्थः । अपि च तस्य कृतिकर्मणि विधीयमाने तदीयायाः सावधक्रियाया अप्यनुमतिः कृता भवति, अतः सा मा भूदिति बुद्ध्याऽपि न वन्दनीयोऽसौ ।।४५४६।।
किञ्चलोए वेदे समए, दिट्ठो दंडो अकज्जकारीणं । दम्मति दारुणा वि हु, दंडेण जहावराहेण ।।४५४७।।
'लोके' लोकाचारे 'वेदे' समस्तदर्शनिनां सिद्धान्ते 'समये' राजनीतिशास्त्रे 'अकार्यकारिणां' चौरिकाद्यपराधविधायिनां 'दण्डः' असम्भाष्यता-शलाका-निर्वृहणादिलक्षणः प्रयुज्यमानो दृष्टः । कुतः पुनरसौ प्रयुज्यते ? इत्याह-'दारुणाः' रौद्रास्तेऽपि 'यथापराधेन' अपराधानुरूपेण दण्डेन दीयमानेन 'दम्यन्ते' वशीक्रियन्ते । अत इहापि मूलगुणाद्यपराधकारिणां कृतिकर्मवर्जनादिको दण्डः प्रयुज्यते । एतच्च कारणाभावमङ्गीकृत्योक्तम्, कारणे तु वाङ्नमस्कारादिकं वन्दनकपर्यन्तं सर्वमपि कर्त्तव्यम् ।।४५४७।।
यत आहवायाए कम्मुणा वा, तह चिट्ठति जह ण होति से मन्न । पस्सति जतो अवायं, तदभावे दूरतो वज्जे ॥४५४८।।
'यतः' पार्श्वस्थादेः सकाशात् कृतिकर्मण्यविधीयमाने 'अपायं' संयमाऽत्मविराधनादिकं पश्यति तं प्रति 'वाचा' मधुरसम्भाषणादिना 'कर्मणा' शिरःप्रणामक्रियया तथा चेष्टते यथा तस्य 'मन्युः' स्वल्पमप्यप्रीतिकं न भवति । अथावन्दनेऽपि संयमोपघातादिरपायो न भवति ततस्तस्य-अपायस्याभावे दूरतस्तं सुखशीलजनं वर्जयेत्, एष विषयविभागः कृतिकर्मकरणाऽकरणयोरिति भावः ।।४५४८।।
न पुनस्तेषां वन्दने कारणानीत्याह